________________
चूर्णिभाष्यावचूरिः उ० ११ सू० ७२-७७ दिवाभोजनावर्णवादादिनिषेधः २७१ परम्परागतं वैरं भवति तत् वैराज्यम्, अथवा यस्य राज्ञो राज्ये कोट्टपालादयो विरज्यन्ति विरोधं कुर्वन्ति तत् वैराज्यम्, अथवा विगतो राजा मृतः प्रवासितो वा तद् वैराज्यमिति कथ्यते, विरुद्धस्य राज्ञो राज्यं विरुद्धराज्यम् एतादृशं यत्र भवति तद् वैराज्यविरुद्धराज्यं कथ्यते, तस्मिन् वैराज्यविरुद्धराज्ये 'सज्जो गमणं' सद्यो गमनम्, वर्तमानकाले यत्र नगरे द्वयोः राज्ञोः विरोधो जायते युद्धादिप्रवर्तनशङ्का वा प्रवर्त्तते, तत्र गमनं करोति, यत्र वा युद्धं भविष्यति अभूत् वा तत्रापि यो गमनं करोति 'सज्जो आगमणं' सद्य आगमनम् 'सज्जो गमणागमणं करेइ' सद्यः गमनागमनं करोति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते, यो हि भिक्षुर्विगतराजनि विरुद्धराज्ये वा गमनं करोति आगमनं वा गमनागमनं वा करोति कुर्वन्तमन्यं श्रमणं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७४॥
सूत्रम्--जे भिक्खू दियाभोयणस्स अवण्णं वयइ वयंतं वा साइज्जइ॥ सू०७५ ॥
छाया-यो भिक्षुर्दिवाभोजनस्य अवर्ण वदति वदन्तं वा स्वदते ॥ सू० ७२॥ ___ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दियाभोयणस्स' दिवाभोजनस्य-दिवसे भोजनकरणस्य 'अवणं' अवर्ण निन्दाम् 'वयइ' वदति कथयति लोकेभ्यः प्ररूपयति कथाप्रसंगे लोकानां पुरतः दिवसभोजनस्य निन्दां करोति तथा 'वयंतं वा साइज्जइ' दिवाभोजनस्यावर्ण वदन्तं वा भाषमाणं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ७५॥
सूत्रम्-जे भिक्खू राइभोयणस्स वणं वयइ वयंतं वा साइज्जइ॥७॥ छाया-यो भिक्षुः रात्रिभोजनस्य वर्ण वदति वदन्तं वा स्वदते ॥सू०७६॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'राइभोयणस्स' रात्रिभोजनस्य 'वण्णं' वर्ण प्रशंसाम् 'वयइ' वदति कथयति रात्रिभोजने नास्ति कोऽपि दोषः प्रत्युत गुणो भवतीत्येवंप्रकारेण लोकानां पुरतो यो रात्रिभोजनस्य प्रशंसां करोति तथा 'वयंत वा साइज्जई' वदन्तं लोकानां पुरतो रात्रिभोजनस्य प्रशंसां कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०७६ ॥
सूत्रम्-जे भिक्खू दिया असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजइ दिया भुजंतं वा साइज्जइ॥ सू०७७ ॥
छाया--'यो भिक्षुदिवा अशनं वा पानं वा खाद्य वा स्वाचं वा प्रतिगृह्य दिवाभुङ्क्ते दिवा भुञ्जानं वा स्वदते ॥ सू०७७॥
શ્રી નિશીથ સૂત્ર