________________
चूर्णि भाष्यावचूरिः उ. ११ सू०.७०-७१ जिनोक्ताऽन्यप्रशंसनवैराज्यविरुद्ध राज्यगमनादिनि०२६९
अत्राह भाष्यकार:
भाष्यम् – जंरुवो जो भावो भवेज्ज णियओ य अण्णहा सो उ । भण्णइ किज्जइ लोए, विष्परियासो इमो होइ ॥ १ ॥
छाया - यद्रूपो यो भावो भवेत् नियतश्च अन्यथा स तु । भण्यते क्रियते लोके, विपर्यासः अयं भवति ॥ १ ॥
अवचूरिः - लोके यद्रूपो यादृशो भावो नियतः निश्चितो भवति स तु अन्यथा भण्यते, एतावदेव न किन्तु क्रियतेऽपि च अयं विपर्यासो भवतीति विपर्यासलक्षणम् ॥ १॥ अथ विपर्यासस्य भेदान् उदाहरणांश्चः दर्शयति भाष्यकारः
भाष्यम् - दव्ये खेत्ते काले, भावे य चउव्विहो विवज्जासो । कमसो वोच्छं तेसिं, नाणत्तं सत्यभासाए ॥१॥ दवे असोोगमाई, खेत्ते णगराइयं मुणेयब्वं । काले ओगाढ़ाई, भावे पुण निव्वुयाई य ॥२॥
छाया - द्रव्ये क्षेत्रे काले, भावे च चतुर्विधो विपर्यासः । क्रमशो वक्ष्ये तेषां नानात्वं शास्त्रभाषया ॥२॥ द्रव्ये अशोकादि, क्षेत्रे नगरादिकं ज्ञातव्यम् । काले आगाढादि, भावे पुनर्निर्वृतादि च ॥३॥
अवचूरि : - योऽयं सूत्रद्वये विपर्यासः कथितः स द्रव्यक्षेत्र कालभावभेदेन - चतुर्विधः चतुःप्रकारको भवति । एषां द्रव्यक्षेत्रादिभेदभिन्नानां विपर्यासानां नानात्वं क्रमशः आनुपूर्व्या शाभाषया शास्त्रोक्त भाषाविधिना वक्ष्ये कथयिष्यामि । तत्र द्रव्ये विपर्यासो यथा-अजानता पृच्छकेन पृष्टे किमपि अशोकादिकं वृक्षं प्रति निम्बादिकथनम्, निम्बादिकं प्रति अशोकादिकथनम् १ | क्षेत्रे विपर्यासः - हस्तिशीर्षनगरस्य हस्तिनागपुरत्वेन कथनम्, अथवा तद्विपरीतकथनम् २, काले विपर्यासः- आगाढं-प्राप्तं पौरुष्यादिकालं प्रति अनागाढमप्राप्तं कालं कथयति, तद्विपरीतं वा कथयति ३, भावे विपर्यासः - स्वकमनिर्वृतं निर्वृतत्वेन दर्शयति परं निर्वृतमपि अनिर्वृतं प्रकाशयति । एवं तपस्विनमत पस्विनम्, अतपस्विनं तपस्विनं कथयतीत्यादि । एवमादिशब्दात् क्षभादिविषयेऽपि भावा ज्ञातव्याः ४, एवं यः कश्चिद् भिक्षुश्चतुर्विधेन विपर्यासेन एतादृशेन अन्येन वा केनापि विपर्यासेन आत्मानं परं वा विपर्यासयति विपर्यासयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७२ ॥
सूत्रम् - जे भिक्खू मुहवण्णं करेइ करेंतें वा साइज्जइ ॥ सू० छाया -यो भिक्षुर्मुखवर्ण करोति कुर्वन्तं वा स्वदते ॥ सू० ७३ ॥
શ્રી નિશીથ સૂત્ર