SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २५८ निशीथसूत्रे सूत्रम्--जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पज्जोसवेइ पज्जोसवेंतं वा साइज्जइ ॥ सू० ४७॥ छाया-यो भिक्षुरन्ययूथिकेन वा गृहस्थेन वा पर्युषयति पर्युषयन्तं वा स्वदते ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थिएण वा अन्ययूथिकेन-परतीर्थिकेन 'गारथिएण वा' गृहस्थेन वा सह स्थित्वा 'पज्जोसवेइ' पर्युषयति सांवत्सरिकप्रतिक्रमणं करोति कारयति 'पज्जोसवेंतं वा साइज्जई' पर्युषयन्तं वा स्वदते अन्यतीर्थिकैर्गृहस्थैश्च सह पर्युषणाप्रतिक्रमणं कुर्वन्तं कारयन्तमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ४७|| सूत्रम्--जे भिक्खू पढमसमोसरणुद्देसे पत्ताई वा चीवराई वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० ४८॥ छाया-यो भिक्षुः प्रथमसमवसरणोद्देशे पात्राणि वा चीवगणि वा प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥सू० ४८॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पढमसमोसरणुदेसे' प्रथमसमवसरणोद्देशे प्राथमिकसमवसरणमध्ये इत्यर्थः, तत्र समवसरणं त्रिविधं वर्षाकालिकं हेमन्तकालिकं ग्रीष्मकालिकं च, तत्र वर्षाकालिकसमवसरणे चातुर्मास्ये 'पत्ताई' पात्राणि 'चीवराई' चीवराणि वस्त्राणि 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वर्षाकालिकप्रतिक्रमणानन्तरं यो भिक्षुः गृहस्थेभ्यो वस्त्रपात्रादिकं स्वीकरोति तथा स्वीकुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, परन्तु वस्त्रपात्रसहितशिष्यग्रहणं तु कल्पते एवेति सूत्रार्थः । अत्राह भाष्यकारः-- भाष्यम् --आइंमि समोसरणे, वत्थं पायं च जो पडिग्गाहे । सो पावेज्जा णिययं, आणा--अणवत्थ-मिच्छत्तं ॥ छाया- आये समवसरणे वस्त्रं पात्रं च यः प्रतिगृह्णीयात् । स प्राप्नुयान्नियतं आज्ञानवस्थामिथ्यात्वम् ।। अवचूरिः--यो भिक्षुः श्रमणः श्रमणी वा आये प्रथभे समवसरणे वर्षाकालिकप्रतिक्रमणानन्तरं चातुर्मासे प्रारब्धे सति तथा चतुर्माससमाप्तेः पूर्व वस्त्रं पात्रं साधूनां योग्यम् प्रतिगृह्णीयात् स्वीकुर्यात् तथा स्वीकुर्वन्तमनुमोदते स नियतं निश्चितं आज्ञाभङ्गदोषं प्राप्नुयात् तीर्थकरस्याज्ञामतिक्रामतीत्यर्थः तथा अनवस्थादोषं मिथ्यात्वं च प्राप्नुयात् लोके मिथ्यात्वं जनयति यथा वदति तथा न करोति इति साधुत्वविराधनं संयमात्मविराधनं च प्राप्नुयात् ।।सू० ४८॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy