________________
चूर्णिभाष्यावचूरिः उ०१० सू०४९
उद्देशकसमाप्तिः
२५९
सूत्रम् -- तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धा
इयं ॥ सू० ४९||
छाया
॥ णिसीहज्झयणे दसमो उद्देसो समत्तो ॥ १० ॥
- तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ||सु० ४९॥ ॥ इति निशीथाध्ययने दशमोदेशकः समाप्तः ॥ १०॥
चूर्णी- 'तं सेवमाणे' इत्यादि । 'तं' तत् उद्देशकस्यादितः आचार्यस्याऽऽगाढवचनादारभ्य दशमोद्देशकस्य चरमभागे 'पढमसमोसरणोद्देसे' इति सूत्रपर्यन्तं कथितम् वर्षाकालस्य प्रतिक्रमणानन्तरं वस्त्रपात्रादिग्रहणान्तं प्रायश्चित्तस्थानं 'सेवमाणे' सेवमानः तन्मध्याद् एकस्य सर्वस्य वा प्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणो वा 'आवज्जइ' आपद्यते प्राप्नोति 'चाउमा सियं परिहारद्वाणं अणुग्धाइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकं गुरुकं गुरुचातुर्मासिकं प्रायश्चित्तं लभते इति । अयं भावः दशमोद्देशकोक्तप्रायश्चित्तस्थानेषु मध्यात् यत् किमप्येकं सर्व वा दोषस्थानमासेवमानस्य गुरुचातुर्मासिकं प्रायश्चित्तं भवतीति ॥ सू० ४९ ॥ इति श्री विश्वविख्यात -जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलित ललितकलापालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त" जैनशास्त्राचार्य"११ पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां " निशीथसूत्रस्य" चूर्णि भाष्यावचूरिरूपायां व्याख्यायाम् दशमोद्देशकः समाप्तः ॥ १० ॥
શ્રી નિશીથ સૂત્ર