________________
चूर्णिभाष्यावचूरिः उ० १० सू० ४६-४७ पर्युषणाकृत्यनिरूपणम् २५७ ततो दीर्घान् गोलोमप्रमाणमात्रादधिकान् स्थापयति मस्तकोपरि धारयति केशलुञ्चनं न करोति स भिक्षुः आज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादोषान् प्राप्नोति, तथा सकेशमस्तकोपरि कदाचित् जलादिपतने अपूकायिकजीवानां विराधनेन संयमविनाशः, तथा प्रवृद्धकेशेषु यूकालिक्षादयोऽपि संमूर्छिताः सन्तो विराधिता भवेयुः इति शिरसः खर्जने यूकालिक्षादीनां विनाशेन संयमविनाशः, तथा अतिशयेन कण्डूयने कदाचिदात्मविराधनमपि संभवेत् तस्मात् कारणात् साधुः वर्षाकाले पर्युषणायामवश्यमेव केशान् लुञ्चयेत् , पर्युषणां नैवातिक्रामेत् । यदि तरुणो बलवान् भवेत् तदा उत्कर्षतश्चतुर्मासानन्तरमवश्यमेव केशलुञ्चनं कुर्यात् , स्थविरस्याप्येवमेव उत्कर्षतः षण्मासानन्तरमिति ॥सू० ४५।।
सूत्रम्--जे भिक्खू पज्जासवणाए इत्तरियंपि आहारमाहारेइ आहारतं वा साइज्जइ ॥सू० ४६॥
छाया-यो भिक्षुः पर्युषणायामित्वरिकमपि आहारमाहरति आहरन्तं वा स्वदते ॥
चूर्णी---'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पज्जोसवणाए' पर्दूषणायां सांवत्सरिकप्रतिक्रमणदिवसे भाद्रपदशुक्लपञ्चम्याम् 'इत्तरियंपि' इत्वरिकमपि अल्पमपि 'आहार' आहारम् अशनपानखादिमस्वादिमरूपं चतुर्विधाहारमध्यात् यत् किमप्येकमल्पप्रमाणकमपि आहारजातम् सिक्थमात्रमपि, जलस्य बिन्दुमात्रमषि 'आहारेई' आहरति-आहारस्योपभोगं करोति कारयति वा तथा 'आहारेंतं वा साइज्जइ' आहरन्तं-पर्युष. णादिवसे अल्पप्रमाणमपि अशनादिकमुपभुञ्जानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:--- भाष्यम्-इत्तरियपि य असणं, पज्जोसवणाए आहरे जो उ ।
सो पावइ पच्छित्तं, आणाभंगाइदोसे य ।। छाया-इत्वरिकमप्यशनं पर्युषणायां आहरेद् यस्तु ।
स प्राप्नोति प्रायश्चित्तमाज्ञाभङ्गादिदोषाँच्श्र ।। अवचूरिः---- यो भिक्षुः श्रमणः श्रमणी वा पर्युषणायां सांवत्सरिकप्रतिक्रमणदिवसे इत्वरिकमपि, तत्र इत्वरं-स्तोकमल्पमपि अशनं चतुर्विधमाहारं आहरति स भिक्षुः प्रायश्चित्तं प्राप्नोति, तथा आज्ञाभङ्गादिदोषांश्च प्राप्नोति लभते चातुर्मासिकं गुरुप्रायश्चित्तमपि तस्य भवतीति तस्मात् कारणत् श्रमणः श्रमणी वा सांवत्सरिकप्रतिक्रमणदिवसे स्तोकमप्याहारं न स्वयमाहरेत् न वा परानाहारयेत् न वा आहरन्तमनुमोदयेत् किन्तु या सामाचारी साधूनां ताम् अवलम्ब्यैव धर्मध्यानादिकं कुर्यादिति ॥सू० ४६॥
શ્રી નિશીથ સૂત્ર