________________
निशीथसूत्रे विराधनादयो दोषा भवन्ति तस्मात् श्रमणः श्रमणी वा पर्युषणाकाले पर्युषणं कुर्यात् , तथा अप्राप्ते काले अतिक्रान्ते वा पर्युषणाकाले पर्युषणं न कुर्यात् न वा कारयेत् न वा कुर्वन्तं कमप्य नुमोदयेत् । उक्तं च समवायाङ्गसूत्रस्य तृतीयसमवाये-“समणे भगवं महावीरे वासाणं सवीसइराइमासे वइक्कंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ" श्रमणो भगवान् महावीरो वर्षाणां सविंशतिरात्रिमासे व्यतिक्रान्ते सप्तत्यां रात्रिंदिवेषु शेषेषु वर्षावासं पर्युषति । वर्षाकालस्य विंशतिरात्रिन्दिवोत्तरे मासात्मककाले व्यतिक्रान्ते सति, तथा सप्ततिरात्रिन्दिवेषु शेषेषु पर्युषणां पर्युपास्ते सांवत्सरिक प्रतिक्रमणं करोति कृतवानिति प्रकरणार्थः, एतावता ज्ञायते यत् उपर्युक्तसमये सांवत्सरिकप्रतिक्रमणं कर्तव्यं न पूर्व न वा पश्चात् करणीयः, तथाकरणे सूत्रोक्तप्रायश्चित्तप्रसंगात् , इति ॥ सू० ४४॥
सूत्रम् --जे भिक्खू पज्जासवणाए गालोमाइंपि बालाई उवाइणावेइ उवाइणावेंतं वा साज्जइ ॥सू० ४५॥
छाया-यो भिक्षुः पर्युषणायां गोलोमानपि बालान् उपाददाति उपाददतं वा स्वदते ॥सू० ४५॥
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पज्जोसवणाए' पर्युषणायां पर्युषणादिवसे 'गोलोमाइंपि बालाई' गोलोमानपि गोलोमप्रमितानपि बालान् यावत्प्रमाणकाणि गवां रोमाणि केशाः भवन्ति तावत्प्रमाणकान् अपि केशान् मस्तके 'उवाइणावेई' उपाददाति स्वीकरोति धारयतीत्यर्थः तथा 'उवाइणावेंतं वा साइज्जइ' उपाददतं धारयन्तं वा स्वदते अनुमोदते सांवत्सरिकप्रतिक्रमणसमये स्वशिरसि गोकेशप्रमाणानपि केशान् न धारयेत् किमुत ततो दीर्घान् केशान् किन्तु तत्समये केशलुञ्चनं कृत्वैव तत्समये प्रतिक्रमणं कर्तव्यम् , अत्र यो व्यतिक्रमं करोति केशलुञ्चनमकृत्वा सांवत्सरिकप्रति क्रमणं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि जायन्ते इति ।।
अत्राह भाष्यकार:भाष्यम् -- पज्जोसवणाकाले, गोलोमप्पमाणमेत्तकेसेवि ।
जे भिक्खू जइ ठावइ, आणाभंगाइ पावेइ ॥ छाया--पर्युषणाकाले गोलोमप्रमाणमात्रकेशानपि ।
यो भिक्षुर्यदि स्थापयति आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः-यो भिक्षुः श्रमणः श्रमणी वा पर्युषणाकाले सांवत्सरिकप्रतिक्रमणसमये मस्तकादिगतान् केशान् गोलोमप्रमाणमात्रानपि गवां केशप्रमाणकानपि अपि-शब्दात् किमुत
શ્રી નિશીથ સૂત્ર