________________
चूर्णिभाष्यावचूरिःउ.१० सू० ४३-४५
पर्युषणाव्यतिक्रमनिषेधः २५५ छाया-यो भिक्षुरपर्युषणायां पर्युषति पयुषन्तं वा स्वदते ।सू० ४३॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अपज्जोसवणाए' अपर्युषणायाम् अपर्युषणाकाले, अत्र 'ऊष' उष' इति धातुद्वयम् , तेन 'पर्यषणा' 'पर्युषणा' इति द्वयमपि रूपं सिद्धयातीति पर्युषणस्य सांवत्सरिकस्य यः कालः प्रतिनियतः चातुमासीप्रतिक्रमणानन्तरं पञ्चाशत्तमे दिवसे संवत्सरीप्रतिक्रमणं कर्त्तव्यम् , इत्येवंरूपः कालः, तस्य कालस्याप्राप्तावेव तदतिक्रमणे वा 'पज्जोसवेइ' पर्युषति-पर्युषणां करोति कारयति वा सांवत्सरिकम् प्रतिक्रमणं चतुर्थभक्तक्षमापनादिकं च करोति, तथा 'पज्जोसवेंतं वा साइज्जई' पयुषन्तं वा अप्राप्तेऽतिक्रान्ते :वा पर्युषणाकाले सावत्सरिकप्रतिक्रमणं पर्युषणामूलकतपःप्रभृतिकं वा कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।।सू०४३।।
सूत्रम्-जे भिक्खू पज्जोसवणाए ण पज्जोसवेइ ण पज्जोसवेंतं वा साइज्जइ ॥ सू० ४४॥
छाया-यो भिक्षुः पर्युषणायां न पर्युषति, न पर्युषन्तं वा स्वदते । सू० ४४॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पज्जोसवणाए' पर्युषणायां पर्युषणकाले चातुर्मासिकप्रतिकमणानन्तरं पञ्चाशत्तमदिवसरूपे प्राप्तेऽपि 'ण पज्जोसवेई' न पर्युषति शास्त्रोक्तप्रकारेण पर्युषणां न करोति, न वा कारयति तथा 'ण पज्जोसवेंतं वा साइज्जइ' न पर्युषन्तं वा स्वदते सांवत्सरिककाले प्राप्तेऽपि सांवत्सरिकप्रत्तिक्रमणं यो न करोति न कारयति वा तमनुमोदते यः स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् पर्युषणकाले पर्युषणकृत्यं न परित्यजेत् ।
अत्राह भाष्यकार:भाष्यम्-पत्ते पज्जोसणाकाले, जो न पज्जोसवे मुणी ।
___ अपत्ते वा अईए वा, कुणइ दोसभा भवे ॥ छाया-प्राप्ते पर्युषणाकाले, यो न पर्युषेद् मुनिः ।
___ अप्राप्ते वा अतीते वा, कुरुते दोषभाग भवेत् ॥
अवचूरिः-यः श्रमणः श्रमणी वा पर्युषणाकाले प्राप्ते समुपस्थित्ते संवत्सरीकाले पर्युषणां सावत्सरिककृत्यं क्षमापनादिकं न कुरुते सांवत्सरीसमये तन्निमित्तकधर्मध्यानादिकं न करोति तथा पर्युषणाकाले अप्राप्ते अनागते अतीते व्यतीते वा चातुर्मासिकप्रतिक्रमणानन्तरं पञ्चाशत्तमदिवसरूपे समये यः सांवत्सरिकप्रयुक्तधर्मध्यानादिकं कुरुते स दोषभाग् भवेत् , तस्य गुरुचातुर्मासिकं प्रायश्चित्तं भवति, तथा तस्य आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्म
શ્રી નિશીથ સૂત્ર