SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३६ निशीथसूत्रे छाया- -यो भिक्षुर्दिशमपहरति अपहरन्तं वा स्वदते । सू० १३ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिसं' दिशमाचार्यम् 'अवहरइ' अपहरति - पूर्वसूत्रोक्तप्रकारेण नानाविधवाक्यप्रबन्धं कथयित्वाऽन्यगच्छे नयति तथा 'अवहरं तं वा साइज्जइ' अपहरन्तम् अन्यगच्छे नयन्तं स्वदते अनुमोदते स प्रायविभागी भवति । अत्राह भाष्यकारः--- भाष्यम् - रागेण दोसेण दिसावहारं करेइ वा कारइ जो य भिक्खू । आणाणवत्थाइ विराहणं च मिच्छत्तदोसं समुवेइ सोऽत्थ || छाया- - रागेण द्वेषेण दिशापहारं करोति वा कारयति यश्च भिक्षुः । आज्ञानवस्थादि विराधनं च मिथ्यात्वदोषं समुपैति सोऽत्र ॥ अवचूरि:- : - यः कश्चित् श्रमणः श्रमणी वा रागेण - अन्यगच्छरागेण द्वेषेण-स्वगच्छे सभुत्पन्नद्वेषेण वा दिशापहारं - आचार्यादेरपहारम् - अन्यगच्छे नयनरूपं करोति, अथवा अन्यद्वारा कारयति तदा सोऽत्र विषये आज्ञाभङ्गानवस्थादिदोषान् संयमात्मविराधनां मिथ्यात्वदोषं च समुपैति प्राप्नोति । शिष्य आचार्य नानाविधवाक्यैः प्रतार्यान्यगच्छे नयति तदा भूतपूर्वगच्छ आचार्यरहितो भवति तेन तद्गच्छे धर्मोपदेशकाभावात् धर्मे लोकानां ग्लानिर्हानिश्च भवति, गच्छस्य निराधार करणे तीर्थकराज्ञाभङ्गो भवेत्, तं दृष्ट्वाऽन्योऽप्येवं करोति, तं दृष्ट्वा चान्यः एवमनवस्थादोषः समापद्यते । गच्छविराधना च भवति धर्महान्या संयमविराधनाऽवश्यम्भाविनी, आचार्यापहारे कारणभूतं शिष्यं विज्ञाय गच्छवासिनो लोकास्तं ताडयेयुरपीत्यात्मविराधनासंभवः, गच्छनिन्दायां मिथ्यात्वदोषमपि स भजते, इत्याद्यनेके दोषा संभवन्ति ततो दिशापहारं न कुर्यात् नापि कारयेत् कुर्वन्तं वा नानुमोदयेदिति भावः ॥ १३॥ सूत्रम् - जे भिक्खू बहियावासियं आएसं परं तिरायाओ अविफालेत्ता संवसावेइ संवसावेंतं वा साइज्जइ ॥ सू० १४॥ छाया - यो भिक्षुर्बहिर्वासिकमादेशं परं त्रिरात्रात् अविस्फाल्य संवासयति संवासयन्तं वा स्वदते ॥ सू०१४ || चूर्णी: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बहियावासियं' बहिर्वासिकं बहिः स्वगच्छाद् बहिर्वस्तुं शीलं यस्य स बहिर्वासी स एव बहिर्वासि कस्तम् अन्यगच्छ्वासिनं 'आएसं' आदेशम् आगतः सन् आदेशमाज्ञां करोति स आदेशः प्राधूर्णकः साधुस्तमादेशं 'अविफालेत्ता' अविस्फाल्य अप्रकटय तदागमनकारणमपृष्ट्वेत्यर्थः यथा हे भदन्त ! त्वं किंनिमित्तमत्रागतोऽसि ?, त्वमस्माकमज्ञातोऽसि ? कीदृग्गच्छवासी त्वम् कुत आगतः ? શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy