________________
चूर्णिभाष्यावचूरिः उ०१० सू०१४-१५ बहिर्वासि-साधिकरणयोः रात्रिवासदाननिषेधः २३७ कुत्र गमनकामोऽसि ? इत्येवमपृष्ट्वा 'परं तिरायाओ' परं त्रिरात्रात् रात्रित्रयादनन्तरम् रात्रित्रयात् परतश्चतुर्थादिदिने 'संवसावेइ' संवासयति स्ववसतौ वासयति निवासं ददाति तथा 'संवसावेतं वा साइज्जई' संवासयन्तं वा स्वदते विस्फालनामकृत्वा रात्रित्रयात् परतश्चतुर्थादिदिनेऽपि वासं वासयन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति। अज्ञातकुलशीलं वसतिवासं ददाति तदा कदाचित् स चौरो मुनिवेषधारी भवेत् , लम्पटो लुण्टको वा भवेत् , चौर्य कृत्वा राजपुरुषादिभयात् स्वात्मरक्षार्थ साधुवसतो समागतो वा भवेत् , इत्यादिसंभवादेकरात्रमपि न संवासयेत। त्रिरात्रात् परमिति यत् कथितं तत्रैवं ज्ञातव्यम्-कोऽपि साधुः मार्गविस्मृत्या स्वसाधर्मिसंघात् पृथगभूतो भवेत् , ग्लानादिवैयावृत्त्यार्थ गुरुणा प्रेषित एकाकी तत्र गन्तुकामो भवेत् , इत्यादिकारणवशात् समागतो भवेत् तदा तं दिवसत्रयं यावत् वासं दद्यात् । एतादृशमपि त्रिरात्रात्परं न संवासयेत् । चतुर्थादिदिने वासदानात् बहुदोषसंभवः शिप्यापहरणादिकलङ्कश्चापि समापतेतेति ।
अत्राह भाष्यकार:भाष्यम्-पाहूणगं ससमीवे, आगयं जो न पुच्छइ ।
तिरायाओ परं वासे, आणाभंगाइ पावइ ॥
छाया-प्राघूर्णकं स्वसमीपे, आगतं जो न पृच्छति ।
त्रिरात्रात् परतः वासयेत् आज्ञाभङ्गादि प्राप्नोति ॥
अवचूरिः-यः कोऽपि साधुः अन्यगच्छात् स्वसमीपे समागतं प्राघूर्णकं अन्यगच्छवासिनं साधु यो न पृच्छति यः साधुस्तस्य परिचयादिकं न पृच्छति किन्तु अपृष्ट्वैव त्रिरात्रात् परतः रात्रित्रयादनन्तरं स्ववसतौ वासयेत् तदा स श्रमणः आज्ञाभङ्गादिदोषभागी भवतीत्यर्थः । अपृष्ट्या यदि वासयति तदा इमे दोषा भवन्ति तथाहि-कदाचित् स तेन साधुवेषेण उपद्रवकारकः कश्चित् समागतो भवेत् , वस्त्रादिलोभात् कश्चित् लुण्टको वंचको वा समागतो भवेत् , स्वपक्षपरपक्षाद् वा चौर्य क चौरो वा समागतो भवेत् , मैथुनसेवनार्थ कश्चित् मैथुनार्थी वा समागतो भवेत् , राज्ञां वा अपकारं कृत्वा समागतो भवेत् , आचार्यस्य मारणाय केनचित् प्रेषितो घातको वा भवेत् , अतः सर्व सम्यक् पृष्ट्वा यदि योग्योऽयमिति जानीयात् तदा वासो देयो नो चेत् वासो न देय इति । अपृष्टः पृष्टो वा यदि एवं वदति तदा तस्य रात्रित्रयं यावत् वासो देयः, तथाहि-भवन्तमेवोपसं. पत्तुं समागतोऽस्मि, अपराधस्यालोचनां गृहीतुं समागतोऽस्मि, कुलगणसंघकार्येण वा समागतोऽस्मि, अशिवादिकारणैर्वा समागतोऽस्मि, सूत्रार्थजातनिमित्तेन वा समागतोऽस्मि, एवमादिकथने वासयेत् । सकारणागमनेऽपि तद्गुरोराज्ञां विना रात्रित्रयात् परतो न संवासयेदिति भावः।।सू१४॥
શ્રી નિશીથ સૂત્ર