________________
M
चूर्णिभाष्यावचूरिः उ० १० सू० १३
आचार्यादिरूपदिशापहरणनिवेधः २३५ छाया-- अन्यगच्छस्य रागेण गुरुविप्परिणमयेत् ।
पूर्वगच्छस्य दोषान् यः कथयित्वा दोषवान् भवेत् ॥ अवचूरि-'अन्नगच्छस्स' ' इत्यादि । यः कश्चित् श्रमणः अन्यगच्छस्य गच्छान्तरस्य रागेण तद्रागभावेन पूर्वगच्छस्य दोषान् कथयित्वा गुरुं स्वस्याचार्यादिकं विपरिणमयति-व्यामोहयति आचार्यस्य चित्तविकृति करोति तथाहि-भो गुरो ! नायं गच्छः समीचीनः इत्यादिचूर्णिप्रोक्तप्रकारेण कथयित्वा गुरोस्तद्गच्छसम्बन्धिपरिणामं शिथिलीकरोति स दोषवान् आज्ञाभङ्गादिदोषभागी भवतीति ।
अथवा विपरिणमयतीति आचार्य परिवर्त्तयति स्वाचार्य दोषान् प्रदान्यमाचार्य करोतीत्य र्थविषयेऽप्याह भाष्यकारः-- भाष्यम्--रागेण य दोसेण य, दिसं विप्परिणामए ।
___ तस्स दोसे भणित्ता जो, आणाभंगाइ पावइ । छाया-रागेण च द्वेषेण च दिश विपरिणमयति ।
तस्य दोषान् भणित्वा यः आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः-यः कश्चित् श्रमणः श्रमणी वा रागेण आचार्यान्तरानुरागेण वा द्वेषेण पूर्वाचार्यगत द्वेषेण वा तस्य पूर्वीचार्यस्य दोषान् भणित्वा कथयित्वा दिशं स्वाचार्य विपरिणमयति परिवर्तययि परावर्तनं करोति अन्याचार्यपार्श्वे, गच्झतीति भावः, परावर्त्तनं कारयति वा कुर्वन्तं वा अनुमोदते स आज्ञाभङ्गादिदोषं प्राप्नोति । तत्र विपरिणमनप्रकारस्तु एवम्-कोऽपि शिष्य आचार्यादिवं प्रत्येवं वदति- यस्याचार्यस्य समीपेऽहं प्रव्रजितः स तु अल्पवयस्कः अहं च वृद्धः, तस्मात् एष आचार्यशिष्यसम्बन्धो न सम्यग् घटते कथमहं पुत्रसमानस्यास्याचार्यस्य शिष्यो भूत्वा तिष्ठामि ?, कथं वा अल्पवयस आचार्यस्य विनयवैयावृत्यादिकं करोमि : किं वा मम स्वजनादिवर्गो जानाति !, अथवा असौ आचार्यः अपरिपक्वबुद्धिस्तेन स अकर्तव्यमपि कार्य कदाचित् करिष्यति । एवं सद्भूतमसद्भूतं वा दोष वदेत् । अथाऽयमकुलीनो मदीयो गुरुरहं च कुलीनः, मेघावी चाहं स तु दुर्मेधाः । अहं धनाढयः सन् प्रवजितः, स तु अकिंचनो दरिद्रः प्रवजितः, अहं बुद्धिमान् स तु अबुद्धिः, अबुद्धेः कुतो लब्धिरिति नासौ लब्धिमान् , अथवा पूर्वोक्तप्रकारेणैव स्वकीयमाचार्य निन्दति, यस्य पार्श्वे गन्तुमिच्छति तं च प्रशंसते, यथा-अयं न पूर्वोक्तगुणवान् स तु पूर्वोक्तप्रभूतगुणवान् वर्तते, इत्यादिप्रकारेण यः कश्चित् श्रमणः स्वकीयाचार्यस्य दोषान् सद्भूतानसद्भूतान् वा प्रकाशयित्वा अन्यस्याचार्यस्य च गुणान् प्रदर्य भूतपूर्वमाचार्य त्यक्वाऽन्यमाचार्य परिसेवते स प्रायश्चित्तभागी भवति । तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥सू० १२॥
सूत्रम्-जे भिक्खू दिसं अवहरइ अवहरंतं वा साइज्जइ ॥ सू०१३॥
શ્રી નિશીથ સૂત્ર