________________
निशीथसूत्रे करोति, अयं भावः-कोपि साधुः श्रमणान्तरशिष्यस्य वस्त्रपात्रादिलोभेन प्रकारान्तरेण वाऽपहारं करोति कारयति वा तथा 'अवहरेंतं वा साइज्जई' अपहरन्तं श्रमणान्तरस्य यः शिष्यः तस्यापहारं कुर्वन्तं श्रमणान्तरम् अनुमोदते स प्रायश्चित्तभागी भवति । कथं पुनः शैक्षकस्यापहारो भवतीति चेदुच्यते-कश्चित् श्रमणः नवदीक्षितशिष्यं गृहीत्वा प्रस्थितः कुत्रापि ग्रामे भिक्षाकाले संप्राप्ते तं शिष्यं वसतौ स्थापयित्वा भिक्षार्थ स्वयं गतवान् तदा तत्रान्यः कोऽपि श्रमणः संज्ञादिभूमि गतस्तं दृष्ट्वा तदपहरणबुद्धया तत्समीपं गच्छति। ततः साधुवेषं तं दृष्ट्वा स शिष्यः तस्य वन्दनं करोति ततः स श्रमणः पृच्छति-कस्त्वम् ! कस्मात्स्थानादागतोऽसि ? कुत्र वा गन्तुमिच्छसि !, एवं साधुना पृष्टो शिष्यो वदति-अमुकेन साधुना प्रवाजितोऽस्मि मे गुरुर्भिक्षार्थ ग्रामे गतः, तेनात्रस्थातुमाज्ञप्तः स्थितोऽस्मि, तदा स साधुर्वदति-किमर्थमत्र स्थितोऽसि मया सार्द्धमागच्छ अशनवनपात्रादिना त्वां तोषयिष्यामि, इत्यादि नाना विधप्रलोभनवाक्यैस्तं प्रत्तार्यापहरति स्वसमीपे नयति । तदा स प्रायश्चित्तभागी भवति ॥ सू० ११॥
सूत्रम्-जे भिक्खू दिसं विप्परिणामेइ विपरिणामेंतं साइज्जइ सू०॥ छाया-यो भिक्षुः दिशं विपरिणमयति विपरिणमयन्तं वा स्वदते ॥सू० १२॥
चूर्णी- 'जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिसं विप्परिणामेइ' दिशम् दिशति उपदिशति धर्ममिति दिशः, स श्रमणानां द्विविधः आचार्य उपाध्यायश्च, श्रमणीनां च स त्रिविधः-आचार्य उपाध्यायः प्रवर्तनीचेति, तं तथाविधं दिशं द्विविधं त्रिविधं वा श्रमणः श्रमणी वा 'विप्परिणामेइ' विपरिणमयति आचार्यादेबुद्धिव्यामोहं करोति, तथाहि-कश्चित् श्रमणः स्वस्याचार्य कथयति-भो गुरो ! नायं गच्छः समीचीनः यतोऽत्राल्पाः श्रावकाः, तेऽपि दरिद्राः कृपणाश्च, नात्राहारवस्त्रपात्रादिः सुलभः, अमुको गच्छः समीचीनः, यत्र बहवः श्रावकाः, ते पुनर्धनसमृद्धा उदाराश्च तेन तत्राहारवस्त्रापात्रादिः सुलभः, इत्यादि कथयित्वाऽऽचार्यस्य तद्गच्छसम्बन्धिपरिणामं शिथिलीकरोतीति । अथवा दिशमाचार्य विपरिणामयतीति तस्मिन् दोषविशेष समारोप्य परावर्त्तयति आचार्यपरिवर्त्तनं करोति, पूर्वाचार्य मुक्त्वाऽन्याचार्यपार्श्वे गच्छति । कथमित्याह-नायं मादृशस्याधीतश्रुतस्यानधीतश्रुतोऽयमार्चादित्वेन योग्यः, अथवाअयमपरिणतवयस्कः, अहं तु परिणतवयस्कः, इत्याद्याक्षेपमवलाचायादिकं मुक्वाऽन्यमाचार्यादिकं सेवते । तथा 'दिसं विपरिणामेंतं वा साइज्जई' दिशं विपरिणमयन्तं परावर्तयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः-- भाष्यम्--अन्नगच्छस्स रागेण, गुरुं विप्परिणामए।
पुव्वगच्छस्स दोसे जो, कहित्ता दोसवं भवे ॥
શ્રી નિશીથ સૂત્ર