SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावद्रिः उ. १० सू.०-११-१२ शैक्षापहरणाचार्यादिदिशविपरिणमननिषेधः २३३ पुनराचार्या अर्थधारिणः शास्त्रार्थ शिष्येभ्यः प्रयच्छन्ति शिष्यपरिवारैर्युक्ताः, स तु पुनरगीतार्थः तस्य समीपे एकाकिना त्वया स्थातव्यं भवेत् शिष्यादिपरिवाररहितत्वात् तस्य । अस्माकं पुनराचार्या राजेश्वरतलवरादिभिर्महाजनैः सर्वदैव सम्मानिता भवन्ति, तं पुनर्न कोऽपि जनो जानाति, न वा सत्करोति मायादियुतो हिण्डमानो लोकैरनादृतश्च । अस्माकमाचार्याः महाजनानां नेतारः, स तु एकाको, नास्ति तस्य कोऽपि जनो यस्य स नेता स्यात् । अस्माकं पुनराचार्या बालवृद्धशक्षदुर्बलग्लानादीनां संग्रहोपग्रह कुशलाः, स तु पुनर्नकिञ्चिदपि जानाति । अस्माकमाचार्या धर्मकथां राजादिपर्षदायामपि कयितुं समर्थाः, स तु पुनर्वा चनाशक्तिविकल: परवादिपरिषदि एकमप्यक्षरमुत्तरं दातुमसमर्थः-एकमप्यक्षरं ज्ञातुमसमर्थः, एवं विविधैः प्रकारैविपरिणमयतीति । अथ अप्रव्रजितविषये प्रकारान् प्रदर्शयति-अथवा कश्चित् शैक्षः प्रव्रज्याग्रहणार्थममुकम् आचार्य मनसि संप्रधार्य गच्छन् मार्गे कश्चित् साधुमिलितः तं पृच्छति भो आर्य ! ममामुकः आचार्यः कुत्रचित् दृष्टः श्रुतो वा भवता ! स साधुर्वदति तावता किं प्रयोजनं ते विद्यते ! शैक्षको वदति प्रवजितुकामोऽस्मि तेषां समीपे । तदा स साधुर्दष्टाचार्योऽपि वदति-न मया स आचार्यो दृष्टः, श्रुतोऽपि वदति न मया श्रुतः, अथवा स्वदेशस्थेऽपि आचार्ये वदतिस तु आचार्यो विदेशं गतः । अथवा अग्लानेपि वदति स तु ग्लानः । अथवा वदति-यो हि तस्य समीपे प्रव्रजति स अवश्यमेव ग्लानो भवति, अथवा यः तस्य समीपे प्रव्रजति स नित्यं ग्लानवैयावृत्ये व्यापृतो भवति । अथवा एवं वदति-स तु आचार्यों मन्दधर्मा किं त्वमपि मन्दधर्मा भवितुमिच्छसि ? किं ते मन्दधर्मेण सह संगत्या ? । अथवा एवं वदति-स अल्पश्रुतः त्वं च ग्रहणधारणसमर्थः तस्य समीपे गत्वा किं करिष्यसि ?, अथवा एवं वदतिस मनोवाक्कायैर्गहीं करोति, अथवा ज्ञाने दर्शने चरणे च गही करोति । एवं विविधैः प्रकारैः प्रवजितुकामं तं विपरिणमयति । यो हि भिक्षुरुपर्युक्तप्रकारेण परशैक्षकं विपरिणामयति विपरिणमयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १० ॥ सूत्रम्-जेभिक्खू सेहं अवहरइ अवह रेतं वा साइज्जइ ॥ सू०११॥ छाया-यो भिक्षुः शैक्षकमपहरति अपहरन्तं वा स्वदते ॥ सू० ११ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सेहं' शैक्षकम्, तत्र सूत्रमर्थ साधुसमाचारी वा शिक्षयितुं योग्यः शैक्षकः शिष्यः तं शैक्षकम् 'अवहरई' अपहरति तस्यापहारं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy