________________
२३२
निशीथसूत्रे मिलितः, स साधुवेषं दृष्ट्वा वन्दनादिकं कृतवान् , ततः साधुराह-कुत्र गच्छसि ? स प्राह अमुकस्थाचार्यस्य समीपे दीक्षां ग्रहीतुं गच्छामि, इति श्रुत्वा स साधुः तस्य दीक्षार्थिनो मति विपरिणमयति, स्वपक्षे कर्तु भक्तादिदानधर्मकथादिप्रज्ञापनेन तस्य बुद्धेर्विपरिणामं करोति ।
अथ विपरिणामनप्रकारान् प्रदर्शयति भाष्यकारःभाष्यम्-आहिंडइ अणिसं सो, वयं तु हिंडग अहिंडगा वावि ।
अहवा एगट्टाणे, ठिओ य सो नो वयं एवं ॥ छाया-आहिंडतेऽनिश सः वयं तु हिंडका अहिण्डका वापि ।
अथवा एकस्थाने स्थितश्च स नो वयमेवम् ॥ अवचरिः--मार्गे मिलितः साधुरन्यशिष्यं विपरिणमयितुं प्रव्रजितं वदति-अहो श्रद्धाशील ! ममाचार्यसमीपमागच्छ, यस्य समीपे त्वं वर्तसे स तु अनिशं प्रतिदिनम् आहिण्डते इतस्ततो गमनशीलो विहारं करोति, त्वमपि तेन सहैव गच्छन् सूत्रार्थयोरभ्यास कदा करिष्यसि गमनागमने एवं समयस्य व्ययात् ? वयं तु हिंडकाः मासकल्पविधिना विहरणशीलाः, अथवा अहिण्डकाः धर्मोपकारादिगाढागाढकारणमाश्रित्य चातुर्मासकल्पमाश्रित्य च एकस्थानस्थिता अपि भवामः अतो वयं हिण्डका वा अहिण्डका वास्मः किन्तु नैकान्ततो हिण्डका अहिण्डका वा । चारित्र. मर्यादया व्यवस्थित विहारकारिणो वयं क्रियोद्धारकत्वात् , अतो ममाचार्यसमीपे वसतः तव सूत्रार्थयोरध्ययनं सम्यग्रूपेण भविष्यति, अथवा शिष्याभिप्रायं ज्ञातुं स साधुरेवं वदति-अथवा स तु नियतवास यस्य समीपे त्वं वर्त्तसे स तु एकग्रामनिवासी कूपमण्डूक इव विद्यते न ग्रामान्तरं नगरं वा पश्यति, वयं पुनरनियतवासाश्चातुर्मासं वर्जयित्वा, त्वमपि अस्माभिः सह विहरन् नानाप्रकारकग्रामनगरसंनिवेशराजधानीजनपदादिकं पश्यन् अभिज्ञानकुशलो भवि प्यसि, एवमस्माभिः सह विहरतस्ते दुग्धादिकं च प्रभूतं मिलिष्यति । एवं ममाचार्याः निरतिचारा पवित्राः सुनामधेयाश्च, यस्य समीपे त्वं वर्तसे स तु अविविक्तो मूलगुणस्खलिता सारम्भः सपरिग्रहश्च । न तथा मम पुनराचार्याः, ते तु सर्वगुणसम्पन्ना वर्तन्ते । पुनश्च स तु अल्पपरिवारः क्रोधशीलः स्वल्पेप्यपराधे बहुक्रोधं करोति बहुदण्डं च ददाति । तथा ममाचार्या जातिकुलसम्पन्नाः सर्वजनस्य पूजनीया गुणगुरुकाश्च, स तु पुनर्जातिकुलहीनः । अपि च मदीयाचार्याः लब्धिसंपन्नास्तत आहारोपकरणवसत्यादिकं सुलभतया प्राप्नुवन्ति, स तु लब्धिरहितः, तस्य शिष्या नित्यमाहारोपकरणाद्यर्थमटन्तः सूत्रार्थहीना अगीता• र्थाश्च, तत्र दीक्षितस्त्वमपि तादृश एव भविष्यसि । तथा अस्माकमाचार्या बहुश्रुता
रात्रिन्दिवं वाचनां ददति, तस्य तु नमस्कारमन्त्रप्रतिक्रमणादिष्वपि सन्देह एव, अस्माकं
શ્રી નિશીથ સૂત્ર