________________
चूर्णिभाष्यावचूरिः उ० १० सू० १० अन्यशैक्षबुद्धिविपरिणमननिषेधः २३१ मक्षं तादृशजीवद्वयवधं दृष्ट्वा आत्मघातं कृतवान् । तलवरपुत्रोऽपि वडवादिवधं दृष्ट्वा तथैवात्मघातं कृतवान् , पुत्रशोकात् तलवरपत्नी अपि मृता, तदनन्तरं कलत्रपुत्रशोकात् तलवरोऽपि स्वशरीरमत्यजत् । एवं निमित्तकथने महान् अनर्थो जायते, अतः साधुः कदापि निमित्तं न प्रकाशयेदिति भावः ॥सू० ९॥
सूत्रम्-जे भिक्खू सेहं विपरिणामेइ सेह विपरिणामेंतं वा साइज्जइ ॥ सू०१०॥ छाया--यो भिक्षुः शैक्षकं विपरिणमयति शैक्षक विपरिणमयन्तं वा स्वदते ॥ सू० १०॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सेहं विप्परिणामेई' शैक्षं शिष्यं विपरिणमयति अन्यसाधुशिष्यस्य बुद्धिं व्यामोहयति तस्य गुरोनिन्दाकरणेन स्वगुणोत्कीर्तनादिना च कश्चित् शैक्षकं वदेत्-ममाचार्य एव श्रेष्ठो न तु तव, इत्यादि कथयित्वाऽन्यस्य शैक्षकं विविधैः प्रकारेस्तस्यात्मानं विपरिणमयति पूर्वगुरुविषये तं विगतपरिणाम करोति, अथवा वस्त्रपात्राहारसूत्रार्थादीनां प्रलोभनं दत्त्वा स्वकीयं शिष्यं कर्तुं तन्मतिं व्यामोहयति तथा "विपरिणामेंतं वा साइज्जइ' विपरिणमयन्तं वा स्वदते अन्यदीयशिष्यस्य बुद्धिव्यामोहं कुर्वन्तं श्रमणं योऽनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम् -- दुविहो विप्परिणामो, पव्वज्जिय अप्पवज्जिए तह य ।
___ एक्केको पुण दुविहो, पुरिसित्थीभेयओ होई ॥ छाया-द्विविधो विपरिणामो, प्रत्रजितेऽप्रव्रजिते तथा च ।
एकैकः पुनद्विविधः, पुरुषस्त्रीमेदतो भवति ॥ अवचूरिः--विपरिणामः द्विविधः द्विप्रकारको भवति, एको विपरिणामः प्रबजिते शैक्षे, तथा च द्वितीयः अप्रव्रजिते शैक्षे । पुनरपि एकैको विपरिणामः द्विविधः पुरुषस्त्रीभेदतो द्विविधो भवति ज्ञातव्यः । द्विविधे परिणामे प्रथमं प्रव्रजितशिष्यविषयं विपरिणामं दर्शयति-यथा कश्चित् साधुरन्यशिष्यं स्थण्डिलादिभूमिमार्गे मिलितं कथयति-तव गुरुर्न श्रेष्ठः, त्वां समीचीनतया न रक्षितुमर्हति, न पाठयति, न वस्त्रपाबाहारादिना त्वां तोषयति, अतस्त्वं मम समीपे आगच्छ, त्वामहं सम्यक्तया पठनपाठनादिना तोषयिष्यामि, इत्यादि कथनेन तन्मतिं व्यामोह्य स्वशिष्यं करोतीति प्रवजितशिष्यविषयको विपरिणामः । अप्रव्रजितविषयको विपरिणामश्चेत्थम्-कश्चिद्दीक्षार्थी अमुकस्याचार्यस्य समीपे दीक्षा ग्रहीष्यामीति संप्रधाऱ्या गृहात् प्रस्थितः, मार्गे च कश्चित् द्वितीयः साधु
શ્રી નિશીથ સૂત્ર