________________
निशीथसूत्रे
छाया - यो भिक्षुरनागतं निमित्तं व्याकरोति व्याकुर्वन्तं वा स्वदते ॥ ९॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'अणागयं निमित्तं वागरेइ' अनागतं निमित्तं व्याकरोति, तत्र अनागतं भविष्यत्कालिकं सुखदुःखलाभालाभजीवनमरणविषयकं, यथा तवैतावत्कालानन्तरं सुखदुःखादिकं भविष्यति, लोके सुभिक्षं दुर्भिक्षं वा भविष्यति राज्यपरिवर्तनं युद्धादिकं वा भविष्यति, इत्यादिरूपं निमित्तं ' वागरेइ' व्याकरोति कथयति 'वागतं वा साइज्जइ' व्याकुर्वन्तं भविष्यत्कालिक लाभालाभादिकं कथयन्तं प्रकाशयन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्त भागी भवति ।
२३०
अत्राह भाष्यकारः
भाष्यम् - लाभालाभ सुहं दुक्खं, जीवियं मरणं तहा । बागरे गिहिमाईणं, संजमत्तविराहओ ||
छाया - लाभालाभं सुखं दुःखं जीवितं मरणं तथा । व्याकुर्याद् गृह्यादीनां संयमात्मविराधकः ॥
अवचूरि : - लाभालाभौ सुखदुःखे जीवितं तथा मरणम्, एतत् षड्वस्तुजातम् अतीतानागतवर्तमानकालविषयकम् गृहिणां गृहस्थानां श्रावकाणां तथा आदिशब्दात् अन्यतीर्थिकानां वा व्याकुर्यात् कथयेत् स साधुः संयमात्मविराधको भवति । तत्र संयमविराधना निमित्त भाषणे साधुक्रियाव्यवच्छेदरूपा, आत्मविराधना चाशुभे संपन्ने साधु ताडयेत्, राजपुरुषादिना साधु ग्राहयेत्, राजादिना वा निगृहीतो भवेत्, इत्यादिका अनेके दोषाः, शास्त्रनिषिद्धत्वेनाज्ञाभङ्गादिका दोषाश्च भवेयुः तस्मात्कारणात् श्रमणः त्रिकालविषयक लाभालाभसुखदुःखजीवितमरणादिकं निमित्तं कदाचिदपि न कथयेत् स्वयम्, न वा परद्वारा प्रकाशयेत्, न वा प्रकाशयन्तमनुमोदेत । अत्रैतदुदाहरणम् -
आसीत् मगधदेशे अश्वकर्णो नाम तलवर : (कोट्टपालः) स कदाचित् युद्धार्थ गतवान्, ततः कदाचित् तस्य गेहे भिक्षार्थ कश्चित् साधुरागतः, तत्पत्न्य पृष्टः - भो साधो ! मम पतिः कदा आगमिष्यति ? साधुना कथितम् श्वः समागमिष्यति । ततः सा द्वितीय दिवसे कृतशृङ्गारा तदागमनं प्रतीक्षमाणा तिष्ठति तावत् अश्वकर्णः तलवरः समागतः । स कृतशृङ्गारां पत्नीमपृच्छत्कथं त्वं कृतशृङ्गारास्थिता ? तया कथितम् भवत आगमनसमाचारं ज्ञात्वा तेन कथितम् - कथं ज्ञात त्वया ? ततस्तया कथितम् - साधुसकाशात् विज्ञाय कृतशृङ्गारा स्थिताऽस्मि । तस्मिन्नेवावसरे स एव साधुः भिक्षार्थ समागतः असौ तलवरस्तत्परीक्षार्थ तं साधुं पृष्टवान् मम वडवाया उदरे कीदृशः गर्भो विद्यते ? साधुनिमित्तवशादवोचत् तस्याः गर्भे श्वेततिलको घोटकस्तिष्ठति, इति श्रुत्वा स तलवरस्तत्परिज्ञानार्थं वडवां हतवान् तादृशमेव गर्भ दृष्टा साश्चर्यो जातः । साधुश्च स्वस
શ્રી નિશીથ સૂત્ર