________________
२२४
निशीथसूत्रे
छाया- आगाढं द्विविधं प्रोक्तं सूचया च असूचया ।
तयोद्धयोः स्वरूपं च ज्ञेयं शालानुसारतः ॥ अवचूरिः-अत्र तु सूचयति परस्य दोषान् कथयतीति सूचा परदोषाविष्करणम्, असूचान सूचा परदोषाविष्करणरूपेति-असूचा । यत्र परस्य दोषाः सूच्यन्ते नात्मन-इति सूचा । यत्र परस्य दोषा न सूच्यन्ते स्वात्मनः सूच्यन्ते सा-असूचेति भावः, अत्रेदं प्रथममागाढसूत्रम् १, द्वितीयं परुषसूत्रम् २, तृतीयमागाढपरुषमुभयरूपम् ३, तत्र येनोक्तेन स्वपरशरीरे ऊष्मा समुत्पद्यते तदागाढम् १, यत् स्नेहरहितमुपेक्षावचनं तत् परुषम् २, यत्र द्वयोरागाढपरुषयोः संयोगो भवेत्तद् आगाढपरुषं कथ्यते ३, । एतत् त्रिविधमपि वचनमेकैकं सूचाऽसूचाभ्यां द्विविधं भवति । तत्र प्रथममागाढवचनं वित्रियते-'आगाढं दुविहं' इत्यादि । तत् आगाढम्-आगाढवचनं द्विविधं प्रोक्तम्-सूचया असूचया चेति । एषा सूचा असूचा च सप्तदशप्रकारके वस्तुनि भवति-जातौ १, कुले २, रूपे ३, भाषायाम् ४, धने ५, बले ६, पर्याये ७, यशसि ८, तपसि ९, लाभे १०, सत्त्वे ११, वयसि १२, बुद्धौ १३, धारणायां १४, उपग्रहे १५, शीले १६, सामाचार्या च १७ तत्र जातो सूचा परस्य स्फुटमेव दोषं भाषते नात्मनो दोषं वदति यथा जातिविशिष्टेऽपि न त्वं जातिविशिष्टोऽसि अहं पुनर्जातिमान् , इत्यादिकथनरूपा जातिविषया सूचा १, असूचा तु यथा भोः ! अहं जातिहीनोऽस्मि भवान् जातिमान् तथा च जातिमता सह जातिहीनस्य मे को विरोधः ? एषा जातिविषया असूचा, अहं भोः ! कुलवान् भवान् कुलहीन इति कुलविषया सूचा । एवम् अहं भोः ! कुलहीनः, कुलपुत्रैः सह को विरोधोऽस्माकमिति कुलविषया असूचा २, तथा अहं भोः ! रूपवान् भवान् रूपहीनः कुरूपोऽस्तीति रूपविषया सूचा । एवम् अहं भोः ! रूपहीनः सुरूपदेहवता सह को विरोधः ? ३॥ एवं प्रकारेण भाषादिषु सर्वेपु स्थानेष्वपि सूचा असूचा च भणितव्या, तत्र सूचा परगता, असूचा आत्मगता भवति । तत्र भाषा-वाणी ४, धनम्-हिरण्यसुवर्णरजतादिकम् ५, बलम् औरसः पराक्रमः ६, पर्यायः प्रव्रज्याकालः ७, यशः लोकख्यातिः ८, तपः संयमश्चतुर्थभक्तादिर्बा ९, लाभः-आहारोपकरणादिलब्धिः १०, सत्त्वम्-आत्मबलम् ११, वयःअवस्था १२, बुद्धिः-औत्पत्तिक्यादिः १३, धारणा-दृढस्मृतिः १४, उपग्रहः-बहुबहुविधक्षिप्रा--- निश्रितासंदिग्धध्रुवाणामुपकारकरणम् १५, शीलम्--अक्रोधादिप्रकृतिः १६, सामाचारी-चक्रवालरूपा साधुसामाचारी १७, एतानि सर्वाणि स्थानानि समवलम्ब्य सूचया वाऽथ असूचयाऽऽचार्यादिकं प्रति एकमप्यागाढवचनं न वदेत्, नाप्यन्यं वक्तुं प्रेरयेत् वदन्तं वा नानुमोदयेत् । यः कोऽप्येवं करोति स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गाऽनवस्थादयोऽनेके दोषा भवन्तीति ॥सू१०॥
सूत्रम्-जे भिक्खू भदंतं फरुसं वयइ वयंतं वा साइज्जइ ॥सू० २॥ छाया यो भिक्षुर्भदन्तं परुषं वदति वदन्तं वा स्वदते ॥सू०२॥
શ્રી નિશીથ સૂત્ર