________________
॥ दशमोदेशकः ॥ व्याख्यातो नवमोदेशकः, अथ दशमोद्देशकः प्रारभ्यते, अस्य दशमोद्देशकस्य नवमोद्देशकेन सह कः सम्बन्ध इति चेदत्राह भाष्यकार:--'रायपिंडं' इत्यादि । भाष्यम्-रायपिंडं च मा मुंजे, तहा दासीनिमित्तगं ।
गिद्धो वयइ आगाढं, दसमे तन्निसेहणं ॥१॥ छाया-राजपिण्डं च मा भुक्ष तथा दासीनिमित्तकं ।
गृद्धो वदति आगाढ़, दशमे तन्निषेधनम् ॥१॥ अवचूरिः--पूर्व नवमोद्देशकान्तिमसूत्रे राजपिण्डं दासीनिमित्तकं पिण्डं च न भुञ्जीत इति भगवता निषिद्धं तत आचार्यः शिष्यं कथयति-हे आर्य ! 'रायपिंड' राजपिण्ड तथा दासीनिमित्तकं पिण्डं मा भुङ्क्व, एवमुक्तः शिष्यः “गिद्धो' गृद्धः राजपिण्डे दासीनां रूपे च मूर्छितः सन् तन्निवारणे कृते आचार्यम् आगाढं-परुषं वदतीति दशमेऽस्मिन् उद्देशके तन्निषेधनं तस्य तादृशस्यागाढवचनस्य निषेधनं निवारणं कृतम् । यस्मात् राजादीनामशनादिकं विशिष्टं भवति तत्र, तथा राजादीनां दास्यः प्रायः सौन्दर्यशालिन्यो भवन्ति आहारप्रसङ्गादासीभिः सह परिचयसंभवात्तद्रूपे च मूर्छितो मोहोदयात्संयमाद् भ्रष्टो भवितुमर्हति तस्मात्कारणाद् राजपिण्डादेनिषेधे शिष्यः परुषं वदेदिति तन्निषेधनमत्र प्रतिपादयिष्यते । एष एव नवमोदेशकेन सह दशमोशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य दशमोद्देशकस्येदमादिसूत्रम्- 'जे भिक्खू भदंत' इत्यादि ।
सूत्रम्-जे भिक्खू भदंतं आगाढं वयइ वयंतं वा साइज्जइ ॥२०१॥
छायायो भिक्षुर्भदन्तमागाढं वदति वदन्तं वा स्वदते ॥सू० १॥
चूर्णी- 'जे भिक्ख' इत्यादि । जे भिक्खू यः कश्चिद् भिक्षुः 'भदंतं' भदन्तं 'भदि कल्याणे सुखे च' इति धातोः रूपम् । तेन भदन्तं कल्याणकारकम् आचार्यमुपाध्यायं पर्यायज्येष्ठं च प्रति 'आगाढं' आगाढम् , तत्र गाद कठोरम् अत्यर्थ गाढमागाढं सरोषवचनम् 'वयइ' वदति कथयति । यो भिक्षुः राजपिण्डादिषु गृद्धः आचार्यादिना निवारित आचार्यादिकं अतिशयाधिक कठोरवचनं वदति तथा 'वयंतं वा साइज्जई' वदन्तं वा स्वदते । यो भिक्षुराचार्येण राजपिण्डादिषु निवारित आचार्यादिकं आशातनारूपं कठोरवचनं वदति तादृशं श्रमणान्तरं यो अनुमोदते च स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:--- भाष्यम्-आगाई दुविहं वुत्तं, सूयया य असूयया ।
तेसिं दोण्इं सख्वं च, णेयं सत्थानुसारओ ॥
શ્રી નિશીથ સૂત્ર