SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिःउ १० सू० १-४ भदन्तं प्रति आगढादिभाषणतदाशातनानिषेधः २२५ चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंत' भदन्तमाचार्योपाध्यायादिकं पर्यायज्येष्ठं वा 'फरुष' परुष कर्कशं कठोरवचनं स्नेहरहित सूक्षमित्यर्थः वाक्यं 'त्वं व्यवहारं न जानासि' इत्यादिकम् 'वयई' वदति भाषते 'वयंतं वा साइज्जई' वदन्तं वा स्वदते । आचार्याय कठोरवचनभाषकं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० २॥ सूत्रम्-जे भिक्खू भदंतं आगाढं फरुसं वयइ वयंतं वा साइज्जइ॥ छाया-यो भिक्षुर्भदन्त आगाढंपरुषं वदति वदन्तं वा स्वदते ॥सू० ३॥ चूर्णी-'जे भिक्ख्' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंत' भदन्तम् आचार्योपाध्यायपर्यायज्येष्ठादिकं 'आगाई फरुसं' आगाई परुषं सूचाऽसूचादिभेदभिन्नं प्रथमसूत्र वर्णितमागाई तथा परुष कर्कशं रूक्षं वचनम् 'वयई' वदति भाषते 'वयंतं वा साइज्जई' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ३॥ सूत्रम्- जे भिक्खू भदंतं अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ॥सू० ४॥ छाया-यो भिक्षुर्भदन्तमन्यतरया अत्याशातनया अत्याशातयति अत्याशातयन्त वा स्वदते ॥सू. ४॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भदंत' भदन्तमाचार्यादिकं पर्यायज्येष्ठं च 'अण्णयरीए' अन्यतरया दशाश्रुतस्कन्धे त्रयस्त्रिंशत्प्रकारा आशातनाः कथिताः तासां मध्यात् अन्यतरया यया कयाचिदेकयापि 'अच्चासायणाए' अत्याशातनया तथाऽऽचार्यादिकं प्रति विनयवैयावृत्यादिकरणेन यत् फलं प्राप्यते तत् फलं आशातयति विनाशयतीति आशातना, यद्वा ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते अपध्वस्यन्ते यया सा तया अन्यतरया आशातनया आचार्यादिकं पर्याय ज्येष्ठं च 'अच्चासाएइ' अत्याशातयति तेषामाशातनां करोति 'अच्चासाएंतं वा साइज्जई' अत्याशातयन्तम् आशातनां कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार:-- भाष्यम् ---आसायणा चउविहा, दव्वखेत्ताइभेयओ । एएसिं खलु णाणत्तं, वोच्छं सत्थानुसारओ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy