________________
निशीथसूत्रे
छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानां बहिर्यात्राप्रतिनिवृत्तानामशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति प्रतिहन्तं वा स्वदते ॥ सू० १४ चूर्णी - 'जे भिक्खू' इत्यादि । 'यथा पूर्वसूत्रे यात्रार्थ प्रस्थितानां राजादीनामशनादिग्रहणस्य निषेधः कृतस्तथैवात्र यात्रातः प्रतिनिवृत्तानां राजादीनामशनादिग्रहणनिषेधो वक्तव्यः । सूत्रस्याक्षरगमनिका सुगमा || सू० १४॥ एवम् 'नईजत्तासंपट्ठियाणं' नदीनां यात्रार्थ संप्रस्थितानां राजादीनामशनादिग्रहणनिषेधसूत्रम् ॥ सू० १५ ॥ तथा एवमेव 'नईजत्तापडि नियत्ताणं' नदीयात्रातः प्रत्यागतानां राजादीनामशनादिग्रहणनिषेधसूत्रम् ॥ सू० १६ ॥ एवमेव 'गिरिजतापट्ठियाणं' गिरियात्रार्थं संप्रस्थितानाम्, इति सूत्रम् ॥ सू०१७ || तथा 'गिरिजत्तापडिनिय - ताणं' गिरियात्रातः प्रतिनिवृत्तानाम्, इति सूत्रम् । एषा सूत्रचतुष्टयी त्रयोदशसूत्र यात्राप्रस्थितसूत्रवदेव व्याख्येया || सू० १८ ॥
सूत्रम् - जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं महाभिसेयंसि वट्टमाणसिणिक्खमइ वा पविसइ वा णिक्खमंतं वा पविसंतं वा साइज्ज || सू० १९ ॥
२१४
छाया -यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिकानां महाभिषेके वर्त्त माने निष्क्रामति वा प्रविशति वा निष्क्रामन्तं वा प्रविशन्तं वा स्वदते ॥सू १९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'महाभि सेयंसि' महाभिषेके तत्राभिषेकानां मध्ये महान् अभिषेको महाभिषेकः, तस्मिन् महाभिषेके 'वट्टमाणसि' वर्त्तमाने प्रवर्त्तमाने महाभिषेकस्य समये तत्र 'णिक्खमइ वा' निष्क्रामति तत्र गन्तुमुपाश्रयात् निर्गच्छति वा 'पविसर वा' प्रविशति वा तत्र महाभिषेकस्थाने प्रवेशं कुरुते वा 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंतं वा साइज्जइ' प्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १९ ॥
सूत्रम् -- जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दस अभिसेयाओ रायहाणीओ उद्दिट्ठाओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा णिक्खमइ वा पविसइ वा णिक्खमंतं वा पवितं वा साइज्जइ । तंजहा - चंपा १, महुरा २, वाणारसी ३, सावत्थी ४, सायं ५, कंपिल्लं ६, कोसंबी ७, मिहिला ८, हत्थिणापुरं ९, रायगिहं वा १० ॥ सू० २०||
શ્રી નિશીથ સૂત્ર