________________
चूर्णिभाष्यावचूरिः उ०९ सू० २० चम्पादिदशाऽऽभिषेक्यराजधानीषुद्वित्रिवारगमननि० २१५
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामिमा दश आभिः वेक्याः राजधान्य उद्दिष्टाः गणिताः व्यजिता अन्तर्मासस्य द्विःकृत्वो वा त्रिकृत्वो वा निष्क्राति वा प्रविति वा निष्क्रामन्तं वा प्रविशन्तं वा स्वदते । तद्यथा-चम्पा १, मथुरा २, वाराणसी ३, श्रावस्ती ४, साकेतम् ५, कांपिल्यम् ६, कौशाम्बी ७, मिथिला ८, हस्तिनापुरं ९, राजगृहं वा १० ॥ सू० २०॥
___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाणं' क्षयित्राणाम् ‘मुदियाणं' मुदितानाम् 'मुद्धाभिसित्ताणं' मूर्द्धाभिषिक्तानाम् 'इमायो' इमा वक्ष्यमाणाः 'दस अभिसेयाओ' दश-दशसंख्यकाः आभिषेक्याः अभिषेकयोग्वाः अभिषेकार्थमुपयुज्यमानाः 'रायहाणीओ' राजधान्यः 'उद्दिवाओ उद्दिष्टाः कथिताः 'गणियाओ' गणिताः यासां महाभिषेके गणनाऽस्ति, 'बंजियाओ' व्यञ्जिताः नाम्ना प्रसिद्धाः, तत्र 'अंतोमासस्स' अन्तर्मध्ये मासस्य मासाभ्यन्तरे इत्यर्थः, 'दुक्खुत्तो' द्विःकृत्वो द्विवारम् 'तिक्खुत्तो' त्रिःकृत्वः त्रिवारम् ‘णिक्खमइ वा निष्कामति वा उपाश्रयात् 'पविसइवा' प्रविशति वा उत्सवाम्मे प्रवर्तमाने वा महोत्सवे अन्यस्थानादागत्य तत्र प्रविशतीत्यर्थः तथा 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंतं वा' प्रविशन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अभिषेकयोग्यराजधान्यामुत्सवारम्भे मासाभ्यन्तरे द्विवारं त्रिवारं वा निष्क्रमणं प्रवेशश्च निवारितः, तत्रायं भावः-यत्र उत्सवारम्भो जायते तत्र राजादयस्तत्प्रक्रियासंयोजनार्थ प्रथमं गत्वा निवसन्ति, उत्सवे प्रतिनिवृत्ते च तत्रतः प्रतिनिवर्तन्ते अतः एकवारं निष्कमणस्य प्रवेशस्य च निषेधो न कृतः, किन्तु द्वित्रिवारस्य निषेधः कृतः वारं वारं गमने तेषां द्वेषोत्पत्तिसंभवादिति । कास्तादृश्यो राजधान्यो यत्राऽभिषेकः क्रियते ? इति जिज्ञासायामाह-'तंजहा' इत्यादि । 'तंजहा' तद्यथा--'चंपा' चम्पानाम्नी राजधानी प्रथमा या वासुपूज्यस्य जन्मभूमिः १, 'महरा' मथुरानाम्नी राजधानी द्वितीया यत्र हि कृष्णवासुदेवस्य जन्माऽभूत २, वाराणसी' वाराणसी तृतीया या पार्श्वनाथतीर्थकरस्य जन्मभूमिः ३ 'सावत्थी' श्रावस्तीनाम्नी राजधानी चतुर्थी या संभवतीर्थङ्करस्य जन्मभूमिः ४, 'साएयं' साकेतमयोध्या पञ्चमी या ऋषभदेवस्य अनन्तनाथस्य रामचन्द्रस्य च जन्मभूमिः ५, 'कंपिल्लं' काम्पिल्यं षष्ठी राजधानी या विमलनाथतीर्थङ्करस्य जन्मभूमिः ६, 'कोसंबी' कौशाम्बीनाम्नी सप्तमी राजधानी पद्मप्रभोर्जन्मभूमिः ७, 'मिहिला' मिथिला अष्टमी राजधानी या मल्लिनाथस्य जन्मभूमिः ८, 'हत्थिणापुर' हस्तिनापुरं नवमी राजधानी या शान्तिनाथस्य कुन्थुनाथस्य च जन्मभूमिः ९, 'रायगिहं वा' राजगृहं दशमी राजधानी या मुनिसुव्रतस्वामिनो जन्मभूमिः १०, ता एता दश राजधान्यो नामनिर्देशेन गणिताः कथिताः, एतदतिरिक्ता अपि वासुदेव-बलदेव-चक्रवर्त्यादीनां राजधान्यो बहुजनसमाकीर्णा ग्रहीतव्याः, तास्वपि उत्सवप्रसंगे मासाभ्यन्तरे द्विवारं त्रिवारं वा गमवागगनं
શ્રી નિશીથ સૂત્ર