SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०९ सू० १३-१९ यात्रासंप्रस्थितनिवृत्तराजादोनामाहारग्रहणनि० २१३ छाया-राजा च यत्र तिष्ठति, तत्रस्थेषु गृहादिस्थानेषु । भिक्षुर्दोषान् प्राप्नोति, विहारादेः करणात् ॥ अवचूरिः- 'राया य जन्थ चिट्ठइ' यत्र प्रदेशविशेषे राजक्षत्रियः क्षत्रियवंशीयो राजा तिष्ठति 'तत्थत्थेमुं' तत्रस्थेषु तदासन्नस्थितेषु गृहादिस्थानेषु 'विहारमाइस्स करणाओ' विहारादेः, विहारस्य आदिशब्दात् स्वाध्यायस्य आहारस्य उच्चारादिपरिष्ठापनस्य अन्यतरदनार्यनिष्ठुराऽश्रमणप्रायोग्यकथायाश्च करणात् 'भिक्खू' भिक्षुः श्रमणः श्रमणी वा 'दोसे' दोषान् आज्ञाभङ्गानवस्थादिकान् 'पावई' प्रामोति । यः कोऽपि साधुः राजादिनिवासासन्नगृहादिप्रदेशे विचरेत् स्वाध्यायं कुर्यात् आहारं कुर्यात् उच्चारप्रस्रवणं परिष्ठापयेत् शिष्टविगर्हिता काञ्चित् कथां वा कुर्यात् , एवं कारयेत् वा, तथा कुर्वन्तमनुमोदयेत् वा स आज्ञाभगमनवस्था मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नुयात् , एवं भद्रकाभद्रककृता अनेके दोषा अपि भवेयुरिति । यस्मात् एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा राजादिनिवासासन्नस्थितगृहादौ तत्समीपे वा विहारमारम्य शिष्टजनानाचरणीयकथापर्यन्तं स्वयं न कुर्यात् न वा कारयेत् न वा कुर्वन्तं कमपि अनुमोदयेदिति ॥सू० १२॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्तासंपट्ठियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू०१३॥ छाया--यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां बहिर्यात्रासंमस्थितानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृहाति प्रतिगृह्णन्तं वा स्वदते ॥सू० १३॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाणं' क्षत्रियाणाम् 'मुदियाणं' मुदितानाम् 'मुद्धाभिसित्ताणं' मूर्धाभिषिक्तानाम् पूर्वोक्तस्वरूपाणां 'बहिया जत्तासंपट्ठियाणं' बहिर्यात्रासंप्रस्थितानां परराजविजयार्थ प्रस्थितानाम् , यदा राजा परराजविजयार्थ गच्छति तदा मङ्गलार्थ भोजनं कृत्वा गच्छति तादृशभोजनादित्यर्थः 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वाद्यं वा 'पडिग्गाहेइ' प्रतिगृह्णाति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते । यो हि विजयार्थ प्रस्थितस्य राजादेमार्गे माङ्गल्यार्थ निर्मितभोजनादिसामग्रीतोऽशनादिकं स्वीकरोति स्वीकारयति वा, तथा तादृशमशनादिकं स्वीकुर्वन्तमनुमोदयति स प्रायश्चित्तभागी भवति ॥सू०१३॥ सूत्रम् --जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्तापडिणियत्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहइ पडिग्गाहेंतं वा साइज्जइ ॥सू० १४॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy