SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ॥ नवमोद्देशकः ॥ व्याख्यातोऽष्टमोद्देशकः, सम्प्रति नवमः प्रारभ्यते, तत्रास्य नवमोद्देशकस्याष्टमोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेदत्राह भाष्यकार:भाष्यम्- पिंड हिगारो राया,-इयाण वुत्तो य अट्ठमुद्देसे । रायाइणो य के ते, पिंडो वा कइविहोऽत्थ नवमम्मि ॥ छाया-पिण्डाधिकारो राजादिकानां प्रोक्तश्चाष्टमोद्देशे । राजादयश्च के ते, पिण्डो वा कतिविधोऽत्र नवमे॥ अवचूरिः- 'पिंडहिगारो' इत्यादि । पूर्वमष्टमोद्देशकस्यान्तिमसूत्रे राजादीनां पिण्डग्रहणस्याधिकारः प्रोक्तः । ते च राजादयः के ? पिण्डो वा कतिविधो भवति !, एषोऽधिकारः अत्र नवमोद्देशके निरूपयिष्यते, इत्येष सम्बन्धोऽष्टमनवमोद्देशकयोरिति, अनेन सम्बन्धेनायातस्यास्य नवमोद्देशकस्येदमादिसूत्रम्- 'जे भिक्खू रायपिंडं' इत्यादि । सूत्रम्--जे भिक्खू रायपिंडं गिण्हइ गिण्हतं वा साइज्जइ ॥ सू० १॥ छाया-यो भिक्षुः राजपिण्डं गृह्णाति गृहन्तं वा स्वदते ॥ सू० १॥ चूर्णी:-' 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रायपिंडं गिण्हइ' राजपिण्ड गृह्णाति, अत्रामात्यादीनां पिण्डोऽपि राजपिण्डः प्रोच्यते । तन्नामानि अष्टमोद्देशके प्रदर्शितानि । पिण्डशब्देनात्र चतुर्विधमशनादिकं वस्त्रपात्रादिकं च गृह्यते, तं गृह्णाति स्वीकरोति तथा 'गिण्हंतं वा साइज्जई' गृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, यत उपर्युक्तवस्तुप्राप्त्यर्थ राजादीनां स्तुत्यादिकं कर्तव्यं भवेत् , तथा राजप्रभृतीनां महाघवस्तुप्राप्तौ मोहोदयोपि अधिकाधिक एव भवति, बहुमूल्यवस्तुग्रहणे परिग्रहदोषो भवति, तथा ताद्दशवस्तुनः स्वसमीपे स्थापने साधुमर्यादाऽपि खण्डिता स्यात् तेन मर्यादाभङ्गोऽत्रावश्यम्भावी, साधोरसमाधिरपि स्यात् , तथाऽधिकमूल्यकवस्त्रपात्रादिकं स्वसमीपे स्थापयतः चौरादिभयमपि स्यात् , तथा वस्त्रपात्रादीनामधिकाधिकस्य लाभे लोभवृद्धिरपि भवेत् तेन एषणासमितेरपि विनाशः स्यात् , एवं तादृशवस्तूनां रक्षणादिकरणे एव समयस्य व्ययात् सूत्रार्थयोरपि हानिः स्यात्, संयमविराधनमात्मविराधनं च स्यात् , यस्मात् राजपिण्डग्रहणे पूर्वोक्ता एते दोषा भवन्ति तस्मात्कारणात् भिक्षुः कथमपि राजपिण्डं स्वयं न गृह्णीयात् , न वा परं ग्राहयेत् , न वा गृह्णन्तमनुमोदयेदिति ॥ सू० १॥ सूत्रम्-जे भिक्खू रायपिंडं मुंजइ भुजंतं वा साज्जइ ॥ सू० २॥ छाया यो भिक्षुः राजपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० २॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy