________________
चूर्णिभाष्यावचूरिः उ० ८ सू० १९-२० राजादीनामुत्सृष्टपिण्डादिग्रहणनिषेधः २०१ उत्सृष्टपिण्डमिति कथ्यते तम् 'संसद्यपिडं वा' संसृष्टपिण्डं वा, तत्र भुक्तावशेषमन्नमकिञ्चनेभ्यो दातुं स्थापितं संसृष्टान्नम् संसृष्टपिण्डमिति, तम् 'अणाहपिंडं वा' अनाथपिण्डं वा अनाथेभ्यो दातुं स्थापितं पिण्डम् 'किविणपिंडं वा' कृपणपिण्डं वा दीनजनार्थस्थापितमोदनादिकम् 'वणीमगपिंडं वा' वनीपकपिण्डं वा याचकार्थ स्थापितमोदनादिकं वनीपकपिण्डमिति कथ्यते, यद्वा वनोपकः सिद्धान्नमात्रोपजीवी, यद्वा बनी--स्वकीयदुरवस्थाप्रदर्शनपूर्वकप्रियालापादिना लभ्यद्रव्यम् , तां वनी प्राप्नोतीति वनीपकस्तदर्थं स्थापितं पिण्डम्, एतादृशमोदनादिकं यो भिक्षुः 'पडिग्गाहेइ' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जई' प्रतिहन्तं वा स्वदतेऽनुमोदते । यो हि भिक्षुः राजसम्बन्धि उत्सृष्टमोदनादिकं स्वयं गृह्णाति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात्कारणात् श्रमण उत्सृष्टपिण्डादिकं राजादीनां न गृह्णीयात् न ग्राहयेत् न वा गृह्णन्तमनुमोदयेदिति ॥सू० १९॥
सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ सू० २०॥
॥णिसीहज्झयणे अट्ठमो उद्देसो समत्तो ॥८॥ छाया-तत्सेवमान आपद्यते चातुर्मासिक परिहारस्थानं अनुद्घातिकम् ॥सू०२०॥
॥ निशीथाध्ययनेऽष्टमोद्देशकः समाप्तः ॥८॥ चूर्णी-- 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् अष्टमोद्देशकोक्तमेकमनेकं वा प्रावश्चित्तस्थानं सेवमानः तत्प्रतिसेवनां कुर्वन् भिक्षुः 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'अणुग्याइयं' अनुद्घातिकम् न विद्यते उद्घातो लघुलक्षणो यस्य तपोविशेषस्य तत् अनुद्घातं, तत् यस्य विद्यते तत् तथाभूतं गुरुमासिकमित्यर्थः । यो भिक्षुः आगन्त्रागारादिषु एकाकिन्या स्त्रिया सार्द्ध विहारादित आरभ्व बनीपकपिण्डग्रहणपर्यन्तप्रोक्तप्रायश्चित्तस्थानमध्यात् यत् किमप्येकमनेकं वा अष्टमोदेशोतं सर्व वा प्रायश्चित्तस्थानं सेवते स सूत्रोक्तं प्रायश्चित्तं प्राप्नोति ॥ सू० २०॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर--पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् अष्टमोदेशकः समाप्तः ॥८॥
શ્રી નિશીથ સૂત્ર