________________
२००
निशीथसूत्रे गुलं वा खंडं वा सक्करं वा मच्छंडियं वा भोयणजायं पडिग्गाहेइ पडिग्गाहेतं वा साइज्जइ ॥सू० १८॥
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां सन्निधिसंनिचयात् क्षीरं वा दधि वा नवनीतं वा सपिर्वा तैलं वा गुडं वा लंडं वा शर्करां वा मत्स्यंडिक वा अन्यतरद् वा भोजनजातं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥सू० १८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' इत्यादि-राजादीनां 'सण्णिहिसण्णिचयाओ' सन्निधिसंनिचयात् , तत्र सन्निधिर्नाम दघिदुग्धगुडखंडादिद्रव्यम् तद् द्विविध-विनाशि अवनाशि च, तत्र विनाशिद्रम्-दधिदुग्धनवनीतप्रभृति अल्पकालेन विकृतिसंभवात्, अविनाशिद्रव्यम् घृततैलगुडखण्डशर्करामत्स्यण्डिकप्रमृति बहुकालस्थायित्वात् उक्तञ्च
ओदणगोरसमादी, विणासिदव्वा उ सण्णिही होंति, सक्कुलितेल्लघयगुला, अविणासी संचइयदव्वा ॥१॥ छाया-ओदनगोरसादीनि विनाशिद्रव्याणि तु सनिधयो भवन्ति । शष्कुलितैलघृतगुडानि, अविनाशीनि संचितद्रव्याणि ॥१॥ इति । तस्य-द्विविधस्यापि संनिचय एकत्रीकृतसंचयः, तस्मात् संचितात् संचितद्रव्यमध्यात् यत् किमप्येकमनेकंवा वा 'खीरं वा' क्षीरं वा दुग्धं वा 'दहिं वा' दधि वा 'णवणीयं वा' नवनीतं वा म्रक्षणं 'सप्पि वा' सर्पिर्वा घृतम् 'तेल्लं वा' तैलं वा 'गुलं वा'गुडं वा 'खंडं वा' खण्डं वा 'बुरा' इति लोकप्रसिद्धम् 'सक्करं वा' शर्करां वा-खण्डजातिविशेष 'मच्छंडियं वा मत्स्यण्डिकं वा मीसरीतिलोकप्रसिद्धम् 'अण्णयरं वा भोयणजायं' अन्यतरद् वा भोजनजातम् , एतदतिरिक्तं वा भोजनजातम् 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्यन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १८॥
सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उस्सदुपिंडं वा संसट्ठपिंडं वा अणाहपिंडं वा किविणपिंडं वा वणीमगपिंडं वा पठिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० १९॥
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् उत्सृष्टपिण्डं वा संसृष्टपिण्डं वा अनाथपिण्डं वा कृपणपिण्डं वा वनीपकपिण्डं वा प्रतिगृह्णाति प्रतिगृह्णन्तं बा स्वदते ॥सू० १९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादिराजादीनां 'उस्सट्ठपिंडं वा' उत्सृष्टपिण्डं वा काकादिभ्यः प्रक्षेपणाय स्थापितं पिण्डमोदनादिकम्
શ્રી નિશીથ સૂત્ર