________________
चूर्णिभाष्यावचूरिः उ०९ सू० १-५ राजपिण्डाऽन्तपुरप्रवेशतद्र क्षिकानीताहारनिषेधः २०३
चूर्णी: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रायपिंडं भुंजइ' राजपिण्डं, तत्र राज्ञामुपलक्षणादमात्यादीनां च पिण्डम् अशनादिकं चतुर्विधमाहारजातं, तथा वस्त्रपात्रादिकमष्टप्रकारकं पिण्डम् भुङक्ते राजादिपिण्डानामष्टप्रकारकाणामुपभोगं करोति कारयति वा तथा 'भुंजतं वा साइज्जइ' भुञ्जानं वा स्वदते । यो हि राजादीनामष्टप्रकारकाशनादिपिण्डमध्यात् यत् किमप्यन्यतरं पिण्डमुपभुङ्क्ते तस्यानुमोदनं करोति स प्रायश्वित्तभागी भवति तथा तस्या - ज्ञाभङ्गादिका दोषाश्चापि भवन्तीति ॥ सू० २ ॥
सूत्रम् - जे भिक्खू रायंतेपुरं पविसइ पविसंतं वा साइज्जइ ॥ सू० ३॥ छाया यो भिक्षुः राजान्तःपुरं प्रविशति प्रविशन्तं वा स्वदते ॥सू० ३||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रायंतेपुरं पविस ' राजान्तःपुरं प्रविशति, तत्र राज्ञोऽन्तःपुरं राजान्तः पुरम् तत् त्रिप्रकारकम् - प्राचीनान्तःपुरम्, नवान्तःपुरम् कन्यान्तःपुरं च तदन्तःपुरं पुनः क्षेत्रत एकैकं द्विप्रकारकं भवति - स्वस्थाने परस्थाने च, तत्र स्वस्थानं राजगृहं ( राजभवनं), परस्थानं वसन्तादिसमये उद्यानादिगतम्, तादृशं राजान्तः पुरमशनादिलोभेन यः येन केनापि कारणेन वा प्रविशति, तथा 'पविसंतं वा साइज्जइ ' प्रविशन्तं राजान्तःपुरे प्रवेशं कुर्वन्तं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गाऽनवस्थामिध्यात्वसंयमविराधनात्मविराधनादयो दोषा भवन्ति । एवं राजद्वारस्थितदण्डधरादिपुरुषकृता अवहेलनाशङ्कादयो दोषाश्च भवन्तीत्यतः कथमपि राजान्तः पुरेषु प्रवेशं न कर्यात्, न वा अन्यान् श्रमणान् प्रवेशं कारयेत्, न वा अन्यं प्रवेशं कुर्वन्तमनुमोदेत || सू० ३ ||
सूत्रम् - जे भिक्खू रायंतेपुरियं वएज्जा “आउसो रायंते पुरिए णो खलु अम्हं कप्पइ रायंतेपुरे णिक्खमित्तए वा पविसित्तए वा इमं तुमं पडिग्गहं गहाय रायंतेपुराओ असणं वा पाणं वा खाइमं वा साइमं वा अभिडं आहट दलयाहि" जो तं एवं वयइ वयंतं वा साइज्जइ ॥ सू० ४ ॥
छाया - यो भिक्षुः राजान्तःपुरिकां वदेत् 'आयुष्मति ! राजान्तःपुरिके ! नो खलु मम कल्पते राजान्तःपुरे निष्क्रमितुं वा प्रवेष्टुं वा इमं त्वं प्रतिग्रहं गृहीत्वा राजान्तःपुरात् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा अभिहृतमाहृत्य देहि' यः तामेव वदति वदन्तं वा स्वदते ॥सू० ४ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'रायंतेपुरियं वएज्जा' राजान्तःपुरिकां राजान्तःपुररक्षिकां प्रति एवं वक्ष्यमाणप्रकारेण वदेत् कथयेत् । किं वदेत् ?
શ્રી નિશીથ સૂત્ર