________________
निशीथसूत्रे
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा पायंसि वा पक्खसि वा पुच्छंसि वा सीसंसि वा गहाय संचालेइ संचालेंतं वा साइज्जइ ॥ सू० ८३ ॥
१८४
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतरं पशुजातं वा पक्षिजातं वा पादे वा पक्षे वा पुच्छे वा शीर्षे वा गृहीत्वा संचालयति संचालयन्तं वा स्वदते ||८३ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउम्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथनप्रतिज्ञया - मैथनवाञ्छया 'अन्नयरं' अन्यतरं अनेकेषु मध्यात् यं कमप्येकम् 'पसुजायं वा' पशुजात्तं वा गोमहिषादिकम् 'पक्खिजायं वा' पक्षिजातं वा मयूरादिकम् 'पायंसि वा' पादे वा पशुपक्ष्यादीनां चरणे वा 'पक्खंसि वा' पक्षे वा - ' - 'पुच्छंसि वा' पुच्छे वा 'सीसंसि वा' शिरसि वा 'गहाय' गृहीत्वा 'संचालेइ' संचालयति परिभ्रामयति 'संचालतं वा साइज्जइ' संचालयन्तं वा स्वदतेऽनुमोदते । स्त्रिया मनोविनोदार्थमेवं करोतीति तात्पर्यम् । स प्रायश्चित्तभागी भवति ॥ सू० ८३ ॥
सूत्रम् —— जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा सोयंसि कट्ठे वा किलिंचं वा अंगुलियं वा सलागं वा अणुष्पवेसित्ता संचालेइ संचालेंतं वा साइज्जइ ॥ सू० ८४ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पशुजातं वा पक्षिजातं वा स्त्रोतसिकाष्ठं वा किलिच वा अङ्गुलिकां वा शलाकां वा अनुप्रवेश्य संचालयति संचालयन्तं वा स्वदते ||सू० ८४||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्थ 'मेहुणवडियाए' मैथनप्रतिज्ञया - मैथनवाञ्छया 'अन्नयरं पसुजायं वा' अन्यतरं पशुजातं वा 'पक्खिजायं वा' पक्षिजातं वा मयूरहंसादिकम् 'सोयंसि' स्रोतसि छिद्रे गुप्ताङ्गे 'कहं वा' काष्ठं वा-काष्ठखण्डम् 'किलिंचं वा' किलिंचं वा, तत्र किलिंचो वंशकर्परी तम् अंगुलियं वा' अङ्गुलिकां वा 'सलागं वा' शलाकां वा लौहादिशलाकाम् 'अणुष्पवेसित्ता' अनुप्रवेश्य 'संचालेइ' संचालयति 'संचालतं वा साइज्जइ' संचालयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८४ ॥
શ્રી નિશીથ સૂત્ર