________________
VvvvNAVANAVVVV.
wwwwwwwwwwww
चूर्णिभाष्यावचूरिः उ० ७ र ८०-८४ रजोहरणस्यानुचितबन्धनिषेधः १८३
छाया–यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतमां चिकित्सां आवर्त्तयति आवर्तयन्तं वा स्वदते ॥सू० ८०।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अण्णतरं तेइच्छं' भन्यतमा चिकित्सा, तत्रान्यतमा नाम-चतुर्विधासु चिकित्सासु एकां काञ्चित् चिकित्साम् , ताश्चतस्रो यथावातिको १, पैत्तिकी २, श्लैष्मिको ३, सांनिपतिकी ४, तासु एकां काञ्चित् चिकित्सां रोगोपचाररूपाम् 'आउद्दइ' आवर्त्तयति कारयति 'आउटुंतं वा साइज्जइ' आवर्तयन्तं कारयन्तं वा स्वदतेऽनुमोदते सा प्रायश्चित्तभागी भवति ॥ सू० ८० ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अमणुन्नाइं पोग्गलाइं नीहरेइ नीहरेत वा साइज्जइ ॥ सू० ८१ ॥
छाया यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अमनोज्ञान् पुद्गलान् निर्हरति निर्हरन्तं वा स्वदते ॥सू० ८॥
चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अमणुन्नाई पोग्गलाई अमनोज्ञान पुद्गलान् शरीरस्थान् अशुचिदुर्गन्धिपुद्गलान् 'नीहरेइ' निर्हरति-निष्कासयति 'नीहरेंतं वा साइज्जई' निर्हरन्तं वा शरीरादिभ्योऽमनोज्ञपुद्गलान् निष्कासयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८१॥
जे भिक्खू माउग्गामस्स मेहुणवडियाए मणुन्नाइं पोग्गलाई उवकिरइ उवकिरंतं वा साइज्जइ ॥ सू० ८२॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया मनोज्ञान् पुद्गलान् उपकिरति उकिरन्तं वा स्वदते ॥सू० ८२॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'मणुन्नाई पोग्गलाई मनोज्ञान् पुद्गलान् मनस आल्हादजनकान् शरीरोपचयकारकान् वा पुद्गलान् शरीरे ‘उवकिरई' उपकिरति प्रक्षिपति, अयं भावः-स्वशरीरे स्त्रीशरीरे वा स्वकीयवस्त्रे स्त्रीवस्त्रे वा स्ववसतौ खीवसतौ वा मनोहराणि चन्दनादिसुगन्धिद्रव्याणि प्रक्षिपति येन शरीरादिकं सुगन्धियुक्तं भवति, तथा 'उवकिरंतं वा' उपकिरन्तमन्यं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८२ ॥
શ્રી નિશીથ સૂત્ર