SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ naamannaamanan d चूर्णिभाष्यावचूरिः उ०७ सू०८५-९० _ मातृप्रामप्रकरणम् १८५ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा 'अयमित्थि'-त्ति कटु आलिगेज्ज वा परिस्सएज्ज वा परिचुंबेज्ज वा आलिंगंत वा परिस्सयंतं वा परिचुंबतं वा साइज्जइ ८५ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतरं पशुजातं वा पक्षिजातं वा 'इयं स्त्री-'ति कृत्वा आलिङ्गयेद्वा परिष्वजेत् वा परिचुम्बेत् वा आलिङ्गन्तं वा परिष्वजमानं परिचुम्वन्तं वा स्वदते ॥सू०८५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अन्नयरं पसुजायं वा' अन्यतरं पशुजातं वा 'पक्खिजायं वा' पक्षिजातं वा 'अयमित्थि'-त्ति कटु अयम् पशुः पक्षी वा 'खी इति' स्त्रीबुद्धिं तेषु कृत्वा 'आलिंगेज्ज वा' आलिङ्गयेद्वा-आलिङ्गनं कुर्यात् 'परिस्सएज्ज वा' परिष्वजेत वा परिष्वजनं विशेषतः आलिङ्गनम् 'परिचुंबेज्ज वा' परिचुम्बेत् वा मुखेन चुम्बनं कुर्यात् 'आलिंगंतं वा' आलिङ्गन्तं वा 'परिस्सयंत वा' परिष्वजमानं वा 'परिचुंबतं वा' परिचुम्बन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । स प्रायश्चित्तभागी भवति ।। सू० ८५ ॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ॥ सू० ८६॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अशनं वा पानं वा खाद्य वा स्वाद्य वा ददाति ददतं वा स्वदते ॥सू० ८६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया अशनं वा पानं वा खाद्यं वा स्वायं वा चतुर्विधमाहारजातं स्त्रियै 'देइ' ददाति 'देंतं वा' ददतं वा 'साइज्जई' स्वदतेऽनुमोदते । यः कश्चित् श्रमणो मातृग्रामस्य मैथुनसेवनेच्छया स्त्रिये अशनादिकं ददाति दापयति ददतं वा अनुमोदयति स प्रायश्चित्तभागी भवति ॥ सू० ८६ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० ८७॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अशनं वा पानं वा स्वाद्य वा स्वाद्य बा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥सू० ८७॥ चूर्णीः-'जे भिक्खू' इत्यादि । यो भिक्षुमैथुनसेवनेच्छया चतुर्विधमाहारजातं प्रतोच्छति गृह्णाति प्रतीच्छन्तं वा गृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ८७ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy