________________
निशीथसूत्रे
दोषा भवन्ति तस्मात्कारणात् श्रमणः स्त्रीणामङ्गादिकं न धूपयेत् न वा धूपयन्तमन्यं कथमप्यनुमोदयेत् किन्तु शास्त्रमर्यादामाश्रित्यैव सर्वदा तेन संयमाराधनाय प्रयत्नो विधेय इति ॥सू० १८॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए कसिणाई वत्थाई धरेइ धरतं वा साइज्जइ॥ सू० १९॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया कृत्स्नानि वस्त्राणि धरति-धरन्तं वा स्वदते ॥सू० १९॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'कसिणाई वत्थाई' कृत्स्नानि संपूर्णानि अखण्डितानि 'थान' 'ताका' इति प्रसिद्धानि वस्त्राणि 'धरेइ' धरति-अनागतकाले परिभोगार्थ 'कस्याश्चित् स्त्रिया दास्यामि' इति बुद्धया 'वा' पाचँ स्थापयति 'धरेंतं वा साइज्जइ' धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १९॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अहयाई वत्थाई घरेइ धरेतं वा साइज्जइ ॥सू०२०॥जे भिक्खू माउग्गामस्स मेहुणवडियाए धोवाइं वत्थाई धरेइ धरेंतं वा साइज्जइ ॥सू०२१॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए चित्ताई वत्थाई धरेइ धरतं वा साइज्जइ खू०२२॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए विचित्ताइं वत्थाई धरेइ धरतं वा साइज्जइ ॥सू० २३॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अहतानि वस्त्राणि धरति घरन्तं वा स्वदते ॥सू० २०॥ यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिशया धौतानि वस्त्राणि धरति धरन्तं वा स्वदते ॥सू० २१॥ यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया चित्राणि वस्त्राणि धरति धरन्तं वा स्वदते ॥सू० २२॥ यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया विचित्राणि वस्त्राणि धरति धरन्तं वा स्वदते ॥सू० २३॥
__ चूर्णी- 'जे भिक्खू' इत्यादीनि-अहतवस्त्रसूत्रादारभ्य विचित्रवस्त्रसूत्रपर्यन्तानि चत्वारि सूत्राणि सुगमानि । नवरम्-अहतानि-तन्तूद्गतानि तन्तुवायादानीतानि ।। सू०२०॥ धौतानि-रजकादिना उज्ज्वलीकृतानि ॥सू०२१॥ चित्राणि-एकतररङ्गरञ्जितानि ।। सू०२२॥ विचित्राणिनानारङ्गरञ्जितानि ॥ सू०२३॥
શ્રી નિશીથ સૂત્ર