________________
चूर्णि भाष्यावचूरिः उ०६ सू० १८-२३
मातृग्रामप्रकरणम् १६७
जलेन एकवारमनेकवारं वा प्रक्षालनं कृत्वा तदनन्तरम् 'अलिपेत्ता विलिपेत्ता' आलिप्य विलिप्य पूर्वोक्तौषधिरूपेण लेपनद्रव्येणैकवारमनेकवारं वा लेपयित्वा तदनन्तरं ' तेल्लेण वा' तैलेन वा 'घण वा' घृतेन वा 'वसाए वा' वसया वा चर्बीतिलोकप्रसिद्धया 'णवणीपण वा' नवनीतेन वा प्रक्षणेन 'मक्खन' इति प्रसिद्धेन 'अब्भंगेज्ज वा' अभ्यञ्जयेद्वा एकवारं वा अभ्यञ्जनं कुर्यात् 'मक्खेज्ज वा' म्रक्षयेद्वा प्रतिदिनमनेकवारं वा तैलादिना अभ्यङ्गं वा कुर्यात् 'अब्भंत वा मक्खतं वा साइज्जइ' अभ्यञ्जयन्तं वा प्रक्षयन्तं वा स्वदते । यो हि श्रमणः स्त्रियाः योन्यादिकं 1 तैलादिना अभ्यञ्जयति मैथुनेच्छया तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादिदोषाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात्कार - णात् स्त्रीणामङ्गं श्रमणस्तैलादिना नाभ्यञ्जयेत् न वा तैलादिना अभ्यङ्ग कुर्वतः कथमपि अनुमोदनं कुर्यादिति ॥सू० १७॥
सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठतं वा सोयंतं वा उच्छोलेत्ता पधोएत्ता आलिपेत्ता विलिपेत्ता अभंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएण धूवेज्ज वा पधूवेज्ज वा धूवेंतं वा पधूतं वा साइज्जइ ॥ सू० १८ ||
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्त्रोतोऽन्तं वा उच्छोल्य प्रधान्य आलेप्य विलेप्य अभ्यञ्ज्य म्रक्षयित्वा अन्यतरेण धूपनजातेन धूपयेद्वा प्रधूपयेद्वा धूपयन्तं वा प्रधूपयन्तं वा स्वदते ॥ सू० १८ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुन प्रतिज्ञया - मैथुनवाञ्छया 'पोसंतं वा' पोषान्तं वा 'पितं वा ' पृष्ठान्तं वा 'सोयंतं वा' खोतोऽन्तं वा 'उच्छोलेत्ता पधोएत्ता' उच्छोल्य प्रधान्य एकवारमनेकवारं वा शीतोष्णजलेन प्रक्षालनं कृत्वा 'आलिंपेत्ता विलिपेत्ता' आलेप्य विलेप्यएकवारमनेकवारं वा लेपनद्रव्येण विलेपनं कृत्वा तदनन्तरम् 'अभंगेत्ता मक्खेत्ता' अभ्यज्य म्रक्षयित्वा एकवारमनेकवारं वा तैलघृतवसा नवनीतान्यतमेनाऽभ्यञ्जनं कृत्वा 'अन्नयरेण धूपणजाएणं' अन्यतरेण धूपनजातेन केनाप्येकेन सुगन्धिद्रव्यधूपेन 'धूवेज्ज वा' धूपयेद्वा एकवारं धूपितं कुर्यात् 'पधूवेज्ज वा' प्रधूपयेद्वा अनेकवारं धूपद्रव्यजातेन धूपयेत्, तथा 'धूपेतं वा पधूवंतं वा साइज्जइ' धूपयन्तं वा प्रधूपयन्तं वा स्वदते । यो हि मिक्षुः मैथुनसेवनेच्छया स्त्रिया अङ्गादिकं प्रक्षालनले पनाभ्यञ्जनानन्तरं धूपनद्रव्येण एकवारमनेकवारं वा धूपयति सः, तं यो भिक्षुरनुमोदते सोऽपि च प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषाश्चापि भवन्ति । यस्मादेते
શ્રી નિશીથ સૂત્ર