SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १६४ निशीथसूत्रे चूर्णी—'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउगामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अवाउढि सयं कुज्जा' अप्राकृतिं वस्त्राहरणं नग्नकरणबुद्धया, स्वयं स्वयमेव कुर्यात् यः श्रमणः सुप्तां स्त्रियं वस्त्ररहितां कुर्यादिति भावः, 'सयं ब्रूया' स्वयं ब्रूयात् नग्राथ स्त्रियं कथयेत् मैथुनार्थ प्रार्थनां वा कुर्यात् , तथा 'सयं करेंतं वा सयं ब्रूएं तं चा साइज्जइ' स्वयं स्वयमेव स्त्रिया वस्त्रापहरणं कुर्वन्तं तथा प्रार्थनावचनं ब्रुवन्तं वा श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ११ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए कलहं कुज्जा कलहं बया कलहवडियाए बूया कलहवडियाए गच्छइ बूएंतं वा गच्छंतं वा साइज्जइ ॥ सू० १२॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया कलहं कुर्यात् कलहं ब्रूयात् कलहप्रतिज्ञया ब्यात् कलहमतिज्ञया गच्छति ब्रुवन्तं वा गच्छन्तं वा स्वदते ॥ सू० १२ ॥ चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैंथुनप्रतिज्ञया 'कलहं कुज्जा' कलहं कुर्यात् मैथुनास्वीकारे कलहं कामकलहं वा कुर्यात् 'कलहं वा बूया' कलहं वा ब्रूयात् 'यदि त्वं मया सह मैथुनं न सेविष्यसि सदा तव दुःखमुत्पादयिष्यामि' इत्येवंप्रकारकं ल्केशकारि वचनं वदेत् 'कलहवडियाए ब्रया' कलहप्रतिज्ञया ब्रूयात्-क्रोधावेशेन वदेत् 'कलहवडियाए गच्छइ' कलहप्रतिज्ञया कामकलहेच्छया स्त्रीसमीपं गच्छति, तथा 'बूएतं वा गच्छंतं वा साइज्जई' अवन्तं वा गच्छन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागी भवति ॥ सू० १२ ॥ सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए लेहं लिहइ लेहं लिहावेइ लेहवडियाए वा गच्छइ गच्छंतं वा साइज्जइ ।। सू० १३॥ _छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया लेख लिखति लेखयति लेखप्रतिज्ञया वा गच्छति गच्छन्तं वा स्वदते ॥सू० १३॥ चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'लेहं लिहइ' लेख-प्रेमपत्ररूपं लिखति 'लेहं लिहावेइ लेख लेखयति अन्यद्वारा वा लेख लेखयति 'लेहवडियाए वा गच्छई' लेखप्रतिज्ञया-लेखनार्थाय वा बहिर्गच्छति यत्र स्थितेन लेखो निर्विघ्नं लिख्यते एतादृशं स्थानं गच्छति, 'गच्छंत वा साइज्जइ' गच्छन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy