________________
चूर्णिभाष्यावचूरिः उ. ६ सू० ९-१३
मातृग्रामप्रकरणम् १६३ त्वचोऽपनयनं करोति-अङ्गादानस्य त्वम् अपनीय मणि निष्कासयतीत्यर्थः 'णिच्छल्लेंतं वा साइज्जइ' निश्छल्लयन्तं वा त्वगपनयन कुर्वन्तमनुमोदते स प्रायश्चित्तभागी भवति । अत्र दृष्टान्तो यथा-कश्चित् पुरुषः सुखमुप्तस्याऽजगरस्य मुखं स्फाटयति स क्रुद्धेन तेन निर्गलितो म्रियते, एवमङ्गादानस्य त्वगपनयनं कुर्वतः साधोश्चारित्रं विनश्यतीति ॥ सू० ८॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं जिग्घइ जिग्घेत वा साइज्जइ ॥ सू० ९॥
___छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू० ९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'जिग्घई' जिघ्रति-नासिकया आघातीत्यर्थः 'जिग्घेतं वा साइज्जइ' जिघ्रन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं अन्नयरंसि अचित्तंसि सोयंसि अणुप्पवेसेत्ता सुकपोग्गले निग्घाएइ निग्घाएतं वा साइज्जइ ॥ सू० १०॥
__ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानमन्यतरस्मिन् अचित्ते स्रोतसि अनुप्रवेश्य शुक्रपुद्गलान् निर्घातयति निर्घातयन्तं वा स्वदते ।। सू० १० ॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् स्वमेदम् 'अन्नयरंसि' अन्यतरस्मिन् स्रोतस्सु बहुषु मध्ये यस्मिन् कस्मिंश्चिदपि 'अचित्तंसि सोयंसि' अचित्ते निजावे स्रोतसि छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य तत्र प्रविष्टं कृत्वा 'मुक्कपोग्गले' शुक्रपुद्गलान् वीर्यपुद्गलान् 'निग्याएइ' निर्घातयति-पातयति 'णिग्घाएतं वा साइज्जइ' निर्धातयन्तं वा स्वदते अनुमोदते ॥ सू० १०॥
सूत्रम्- जे भिक्खू माउग्गामस्स मेहुणवडियाए अवाउडि सयं कुज्जा सयं बूया करेंत वा बूएंतं वा साइज्जइ ।। सू० ११ ॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अप्रावृति स्वयं कुर्यात् स्वयं ब्रूयात् कुर्वन्तं वा ब्रुवन्तं वा स्वदते ॥ सू० ११ ॥
શ્રી નિશીથ સૂત્ર