SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ miimmmmm www . निशीथसूत्रे तेन, 'सिणाणेण बा' स्नानेन वा, तत्र स्नान-सुगन्धद्रव्यसमुद्रायनिर्मितवस्तुविशेषमिश्रितजलेन 'साबू' इति लोकप्रसिद्धवस्तुमिश्रितजलेन वा धावनम् , 'चुण्णेहिं वा' चूर्णैर्वा चन्दन चूर्णादिभिः 'वण्णेहिं वा' वर्णकैर्वा सुगन्धाचूर्णरित्यर्थः, एतेषु अन्यतरेण द्रव्येण 'उब्वट्टेइ' उद्वर्तयति एकवारमुद्वर्तनं करोति 'परिवट्टेइ वा' परिवर्तयति अनेकवारमुद्वर्तनं करोति, तथा 'उव्वटेंतं वा' उद्वर्तयन्तं वा एकवारमुद्वर्तनं कुर्वन्तं वा 'परिव्वटेंतं वा' परिवर्तयन्तम् अनेकवारमुद्रतनं कुर्वन्तं वा 'साइज्जइ' स्वदतेऽनुमोदनं करोति स प्रायश्चित्तभागी भवति । यथा खङ्गादिशस्त्रस्य मर्दनेन हस्तस्य छेदो भवति तथैवाङ्गादानस्योद्वर्तनादिकरणेन संयमस्य च्छेदो भवतीति ॥ सू० ६॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं सीओदगवियडेण वा उसिणादगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छो लेंतं वा पधोतं वा साइज्जइ ॥ सू०७॥ छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अङ्गादानं शीतोदकविकटेन वा उष्णो. दकविकटेन वा उच्छोलयेद्वा प्रधाचेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते ॥ सू० ७॥ चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः, 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैंथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'सीओदगवियडेण वा' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतजीवेन अचित्तशीतजलेनेत्यर्थः, 'उसिणोदगवियडेण वा' उष्णोदकविकठेन वा अचित्तेन उष्णजलेनेत्यर्थः 'उच्छोलेज्ज वा' उच्छोलयेद्वा एकवारम् 'पधोवेज्ज वा' प्रधावेद्वा अनेकवारम् 'उच्छोलेंतं वा' उच्छोलयन्तं एकवारम् 'पधोएंतं वा' प्रधावन्तं वा अनेकवारं 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति । अत्र दृष्टान्तो यथा-कस्यचित् पुरुषस्य नेत्ररोगो जातस्ततः स नेत्रं घष्ट्रा घृष्ट्वा जलेन वारं वारं प्रक्षालयति तेन तस्य नेत्रं प्रणष्टम् , एवमेवाङ्गादानस्योच्छोलन प्रधावनेन संयमः प्रणश्यतीति ॥ सु० ७ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहण वडियाए अंगादाणं णिच्छल्लेइ णिच्छल्लेंतं वा साइज्जइ ॥ सू० ८॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं निश्छल्लयति निश्छल्लयन्तं वा स्वदते ॥ सू० ८ ॥ चूर्णी-जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'णिच्छल्लेइ' निश्छल्लयति छल्लीरहितं करोति, तत्र निश्छल्लनभङ्गादानस्य छल्ल्याः -स्त्वचोऽपनयनं ततश्चाङ्गादानस्य શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy