________________
चूर्णिभाष्यावचूरिः उ०६ सू०४-८
मातृग्रामप्रकरणम् १६१ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य-यस्याः कस्याश्चित् स्त्रियाः 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनेच्छयेत्यर्थः अंगादाणं' अङ्गादानं 'संवाहेज्ज वा' संबाहयेद्वा 'पलिमदेज्ज वा' परिमर्दयेद् वा 'संवाहेंतं वा' संबाहयन्तं वा एकवारं मर्दयन्तम् 'पलिमहेंतं वा' परिमर्दयन्तं वा अनेकबारं परिमर्दनं कुर्वन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं तेल्लेण वा घएण वा वसाए वा नवणीएण वा अभंगेज्ज वा मक्खेज्ज वा अभंगेंतं वा मक्खेंतं वा साइज्जइ ॥ सू० ५॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं तैलेन वा घृतेन वा बसया वा नवनीतेन वा अभ्यञ्जयेद्वा म्रक्षयेद्वा अभ्यञ्जयन्तं वा म्रक्षयन्तं वा स्वदते ॥ सू० ५॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य-स्त्रियाः 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानम् 'तेल्लेण वा' तैलेन वा तिलसर्पपादिजातेन 'घएण वा' घृतेन वा 'वसाए वा' वसया वाचर्बीति-लोकप्रसिद्धया 'णवणीएण वा' नवनीतेन वा 'मक्खन' इति लोकप्रसिद्धेन 'अभंगेज्न वा' अभ्यञ्जयेद्वा एकवारं तैलादिना मर्दयेत् 'मक्खेज्ज वा' म्रक्षयेद्वा अनेकवारं विशेषतो बा मर्दयेत् 'अभंगतं वा मक्खेंतं वा साइज्जई' अभ्यञ्जयन्तं वा प्रक्षयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कक्केण वा लाद्धेण वा पउमचुण्णेण वा सिणाणेण वा पहाणेण वा चुण्णेहिं वा वण्णेहिं वा उव्वटूटेइ वा परिवटूटेइ वा उव्वद्रुतं वा पविटेंते वा साइज्जइ ।।
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं कल्केन वा लोधेण वा पद्मचूर्णेन वा स्नपनेन वा स्नानेन वा चूर्णैर्वा वर्णैर्वा उद्वर्तयति वा परिवर्तर्यात वा उद्वर्तयन्तं वा परिवर्तयन्तं वा स्वदते ॥ सू० ६ ॥
___ चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानं 'ककेण वा' कल्केन वा-अनेकद्रव्यसंयोगेन क्रियमाणो वस्तुविशेषः, तेन 'लोद्रेण वा' लोध्रेण वा 'पउमचुण्णेण वा' पद्मचूर्णेन वा ‘ण्हाणेणवा' नपनेन वा, तत्र स्नपनं धिष्टादिनिर्मितोद्वर्त्तनद्रव्यमिश्रितजलेन सिञ्चनं,
શ્રી નિશીથ સૂત્ર