SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ. ६ सू. १४-१७ मातृग्रामप्रकरणम् १६५ अत्र शिष्यः पृच्छति - हे गुरो ! भगवता मैथुनसेवनेच्छया साधूनां पत्रलेखनं निषिद्धं तेनाSन्यकार्यार्थ पत्रलेखनं साधूनां कल्पते इति सिद्धम् । आचार्यः प्राह - हे शिष्य ! साधूनां कुत्रापि पत्रादिलेखनं न कल्पते शास्त्रे तस्य निषेधात् । पुनः शिष्यः पृच्छति - हे गुरो ! शास्त्रे तु मैथुनार्थमेव लेखनं प्रतिषिद्धं दृश्यते तदा कथमेवं भवान् कुत्रापि पत्रलेखनं निषेधयति ? । आचार्य प्राहहे शिष्य ! शास्त्रे मैथुनार्थं यो निषेधः कृतः तस्योपलक्षणत्वात् सामान्यस्यापि निषेधः सूचितः, साधूनां नवकोटेः प्रत्याख्यानात् पश्रादिलिखने नवकोटिविराधनस्यावश्यम्भावात् ॥ सू० १३ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठेवा सोयंतं वा भल्लायएण उप्पाएइ उप्पाएंतं वा साइज्जइ ॥ सू० १४ ॥ छाया- यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्त्रोतोऽन्तं वा भल्लातकेन उत्पादयति उत्पादयन्तं वा स्वदते ||सू० १४ || चूर्णी - 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसतं वा' पोषान्तं वा सेवनाद्यः पुष्यते पुष्टो भवति स पोषः, पोषयति मैथुनार्थिनं यः स पोषः मृगीपदं योनिरित्यर्थः, तस्य अन्तम् प्रान्तभागम् 'पिद्वंतं वा' पृष्ठान्तं वा पृष्ठस्य अपानद्वारस्य गुदाया इत्यर्थः अन्तम् भागं 'सोयंतं वा ' स्रोतोऽन्तं वा तत्र स्रोतः - छिद्रविशेषः स्त्रिया नाभिकर्णादिकं मैथुनेच्छया 'भल्लायरण' भल्लातकेनभल्लातकेति औषधिविशेषः तेन औषधिविशेषेण - औषधिविशेषलेपेन सौन्दर्य सौगन्ध्यादिकं 'उप्पाएइ' उत्पादयति-करोति 'उप्पाएंतं वा साइज्जइ' उत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पितं वा सोयंतं वा भल्लायएण उप्पारत्ता सीओदगवियडेण वा उसिणोदगवि. यडेण वा उच्छोल्लेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंत वा साइ ज्जइ ॥ सू० १५ ॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा भल्लातकेन उत्पाय शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेद्वा प्रधावेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते ॥ सू० १५|| चूर्णी - 'जे भिक्खू माउग्गमस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया--मैथुनवाञ्छया 'पोसंतं वा' पोषान्तं वा ‘पिहृतं वा' पृष्ठान्तं वा ‘सोयंतं बा' स्रोतोऽन्तं वा पूर्वनिर्दिष्टस्वरूपम् 'भल्लायएण उप्पाएता' શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy