________________
निशीथसूत्रे रजोहरणीपरि मस्तकं दत्त्वा शयनं करोतीत्यर्थः, 'ठवेतं वा साइज्जई' स्थापयन्तं वा स्वदते । यो हि श्रमणः रजोहरणोपरि मस्तकं दत्त्वा शयनं करोति तं श्रमणं यो भिक्षुरनुमोदते स प्रायश्चितभागी भवति तस्मात् रजोहरणोपरि मस्तकं दत्त्वा शयनं न कुर्यात् , न वा तदुपरि मस्तकं दत्त्वा शयनं कुर्वतोऽनुमोदनमेव कुर्यादिति ॥ सू० ७८ ॥
सूत्रम्-जे भिक्खू स्यहरणं तुयटेइ तुयटेंतं वा साइज्जइ ।७९ छाया-यो भिक्षुः रजोहरणं त्वगवर्तर्यात त्वगवर्तयन्त वा स्वदते ॥ सू० ७९॥
चूर्णी-'जे भिक्खू रयहरणं' इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'तुयट्टेइ' त्वग्वर्तयति रजोहरणोपरि शयानस्तत्रैव त्वग्वर्तनं पार्श्वपरावर्तनं करोति इतस्ततः त्वचः परावर्तनं करोतीत्यर्थः 'तुयटेतं वा साइज्जइ' त्वग्वर्तयन्तं वा स्वदते अनुमोदते । यो हि श्रमणः रजोहरणोपरि शयनं कृत्वा तदुपरि पार्श्वपरिवर्तनं करोति तं श्रमणं यः श्रमणः अनुमोदते स प्रायश्चित्तभागी भवति, तस्मात् कारणात् रजोहरणोपरि त्धगवर्तनं न कुर्यात् , न वा त्वगवर्तयन्तमनुमोदयेदिति ॥ सू० ७९ ॥ सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारट्ठाणं उग्घाइयं ।८०॥
॥ निसीहज्झयणे पञ्चमो उदेसो समत्तो ।। छाया-तत्सेवमानः आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥ सू० ८०॥
निशीथाध्ययने पञ्चम उद्देशकः समाप्तः ॥५॥ चूर्णी-तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः सचित्तवृक्षमूलावस्थानादारभ्य रजोहरणोपरि त्वग्वर्तनपर्यन्तकथितप्रायश्चित्तस्थानेषु मध्ये यत् किमप्येकं प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जई' आपद्यते प्राप्नोति 'मासियं परिहारद्वाणं उग्घाइय' मासिकं परिहार. स्थानमुद्घातिकम् लघुमासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः । अयं भावः-पञ्चमोद्देशके यावन्ति प्राय श्चित्तस्थानानि प्रोक्तानि तेषु एकमनेकं वा प्रायश्चित्तस्थानं यो भिक्षुः सेवते स लाचातुर्मासिक प्रायश्चित्तं लभते ॥सू० ८०॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त. "जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर - पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां पञ्चमोद्देशकः समाप्तः ॥५॥
શ્રી નિશીથ સૂત્ર