________________
॥ षष्ठोद्देशकः ॥
( मातग्रामप्रकरणम् ) पञ्चमोद्देशकं व्याख्याय साम्प्रतमवसरप्राप्तं षष्ठोद्देशं व्याख्यातुमाह,-तत्र पञ्चमोदेशकेन सह षष्ठोद्देशकस्य कः सम्बन्धः ? इत्यत्राह भाष्यकारः-'उस्सीसं' इत्यादि ।
भाष्यम्-उस्सीसं पुन्चकहियं, तेणं रत्तिं च सुव्वई साहू ।
___ रत्तीए मोहुदओ होइ जया तस्स पच्छित्तं ॥१॥ छाया-उच्छीर्ष पूर्व कथितं, तेन रात्रौ च स्वपिति साधुः ।
रात्रौ मोहोदयो भवति यदा तस्य प्रायश्चित्तम् ॥१॥ अवचूरिः- पञ्चमोद्देशकस्यान्तिमसूत्रे रजोहरणेन उच्छीर्षकरणस्य निषिद्धत्वेन प्रतिपादितम् एतावता रात्रौ शयनं कथितं, दिवसे तु साधोः शयनं न कल्पते । उच्छीर्षेण शयने रात्रौ साधोर्यदा मोहोदयो भवेत् तेन स मैथुनप्रतिज्ञया मातृग्राम-स्त्रियं विज्ञपयेत् तस्यात्र षष्ठोद्देशके प्रायश्चित्तं निरुपयिष्यते, अयमेव पञ्चमोद्देशकेन सह षष्ठोदेशकस्य सम्बन्धोऽस्ति ॥१॥
अनेन सम्बन्धेनायातस्यास्य पष्ठोदेशकस्येहमादिसूत्रम्-'जे भिक्खू माउग्गाम' इत्यादि ।
सूत्रम्-जे भिक्खू माउग्गामं मेहुणवडियाए विण्णवेइ विणवेतं वा साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुर्मातृग्राम मैथुनप्रतिज्ञया विज्ञपयति विज्ञपयन्तं वा स्वदते ॥ सू०१॥
चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः-श्रमण श्रमणीः वा 'माउग्गाम' मातृग्राम-मातुः समानः ग्रामः इन्द्रियसमुदाय इति मातृग्राम इति षष्ठीतत्पुरुषस्तम् । देशविशेषभाषया 'मातृप्राम' शब्देन स्त्री गृह्यते तेन 'स्त्रियम्' इत्यों बोध्यः, सर्वाः स्त्रियो भिक्षुणा मातृवद्द्रष्टव्या अतोऽत्र मातृनामशब्देन निर्देशः कृत इति भावः । 'मेहुणवडियाए' मैथुनप्रतिज्ञयामैथुनवाञ्छया मिथुनस्य स्त्रीपुरुषस्य कर्म मैथुनम् अब्रह्मचर्यमित्यर्थः, तस्य वाञ्छया स्त्रियम् 'विष्णवेइ' विज्ञपयति-मैथुनार्थ स्त्रियं प्रार्थयतीत्यर्थः 'विण्णवेतं वा साइज्जई' विज्ञपयन्तं मैथुनार्थ स्त्रियं प्रार्थयन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा प्रार्थयितुः प्रार्थयितारमनुमोदयितुश्वाज्ञाभङ्गादिका दोषा अपि भवन्तीति ॥ सू० १॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए हत्थकम्मं करेइ करेंतं वा साइज्जइ ॥सू० २॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया हस्तकर्म करोति कुर्वन्तं वा स्वदते ॥२॥
શ્રી નિશીથ સૂત્ર