SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावद्भिः उ.५ सू. ७५-८० रजोहरणस्यानुचितोपभोगनिषेधः १५७ छाया-यो भिक्षुः रजोहरणं व्युत्सृष्टं धरति धरन्तं वा स्वदते ॥सू० ७५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'वोस₹' व्युत्सृष्टं स्वस्माद् अतिदूरं-सार्द्धहस्तत्रयात् दूरम् , एतावदूरे अवस्थितं रजोहरणम् 'धरेड' धरति-स्थापयति तथा 'धरेंतं वा साइज्जइ' धरन्तं वा स्वदते अनुमोदते । यो हि भिक्षुरतिदूरे रजोहरणं धरति स्थापयति, अथवा रजोहरणमन्तरेणैव गमनागमनं करोति तदा शरीरोपरि उपकरणोपरि वा पिपीलिकादि आगच्छेत् तत् हस्तादिना निवारणेन पिपीलिकादीनां विराधनं भवति, तथा हस्तेन शरीरकण्डूयने वा जीवविराधनासंभवः, तेन संयमविराधना भवति, तथा कदाचिदकस्माद् कोऽपि विषकीटः शरीरोपरि समापतति तदा रजोहरणाभावे आत्मविराधनाया अपि संभवः । यत इमे दोषा भवन्ति तस्मात् रजोहरणस्य दूरे स्थापनं न कुर्यात् , न वा तथाकर्तुरनुमोदनमपि कुर्यादिति ॥ सू० ७५ ॥ सूत्रम्-जे भिक्खू स्यहरणं अणिसिटूढं धरेइ धरेतं वा साइज्जइ॥ छाया-यो भिक्षुः रजाहरणमनिसृष्टं धरति धरन्तं वा स्वदते ॥ सू० ७६ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'अणिसिटुं' अनिसृष्टम् यदनेकस्वामिकं वस्तु तदेकेन दीयमानम् अनिसृष्टमिति कथ्यते, एतादृशं रजोहरणम् 'धरेइ' धरति तादृशरजोहरणस्य धारणं करोति तथा 'धरेंतं वा साइज्जइ' धरन्तं वा स्वदते । यो हि श्रमण अनेकस्वामिकमेकेन दीयमानं रजोहरणं धरति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषा भवन्ति । तथा सर्वस्वामिनाऽप्रदत्तस्य ग्रहणे इतरस्वामिना कलहादिरपि भवेत् तस्मात्तादृशं रजोहरण न धारयेत् , न वा धारयन्तमनुमोदयेदिति सर्वस्वामिदत्तं रजोहरणं ग्राह्यमिति भावः ॥ सू० ७६ ॥ सूत्रम्-जे भिक्खू स्यहरणं अहिलेइ अहितं वा साइज्जइ ॥७७ ।। छाया-यो भिक्षुः रजाहरण अधितिष्ठति अधितिष्ठन्तं वा स्वदते ॥ सू० ७७ ॥ चूर्णी-'जे भिक्खू रयहरणं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'अहिढेई' अधितिष्ठति रजोहरणोपरि उपविशति 'अहिटुंतं वा साइज्जइ' अधितिष्ठन्तं वा स्वदते । यो हि रजोहरणोपरि उपविशति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् रजोहरणोपरि उपवेशनं न कर्त्तव्यम् , न वा उपविशन्तं श्रमणमनुमोदयेदिति ॥ सू० ७७ ।। सूत्रम्-जे भिक्खू स्यहरणं उस्सीसमूले ठवेइ ठवेंतं वा साइज्जइ । ७८। छाया-यो भिक्षुः रजोहरणम् उच्छीर्षमूले स्थापयति स्थापयन्तं वा स्वदते ॥७८॥ चूर्णी—'जे भिक्खू रयहरणं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'उस्सीसमूले ठवेइ' उच्छीर्षमूले स्थापयति शयनसमये मस्तकाधोभागे निदध्यात् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy