SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ vvvvvvvv १५६ निशीथसूत्रे सूत्रम्-जे भिक्खू स्यहरणस्य परं तिण्हं बंधाणं देइ देंतं वा साइ ज्जइ॥सू० ७२॥ छाया-यो भिक्षुः रजोहरणस्य परं त्रयाणां बन्धानां ददाति ददतं वा स्वदते ॥७२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रयहरणस्स' रजोहरणस्य 'परं तिण्हं बंधाणं' परं त्रयाणां बन्धानाम् बन्धनत्रयादधिकं बन्धनम् 'देइ' ददाति बन्धनचतुष्कादिना बध्नातीत्यर्थः, 'देंतं वा साइज्जई' ददतं वा स्वदते । यो हि रजोहरणे बन्धनत्रयादधिकानि चतुः पञ्च वा बन्धनानि ददाति, तं योऽनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीत्यतो रजाहरणे बन्धनत्रयादधिकं बन्धनं न दद्यात् , तथा ददतं नानुमोदयेत् ॥ सू० ७२ ॥ सूत्रम्-जे भिक्खू स्यहरणं अविहीए बंधइ बंधतं वा साइज्जइ ।७३। छाया-यो भिक्षुः रजोहरणमविधिना वध्नाति बध्नन्तं वा स्वदते ॥ सू० ७३ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिबव' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'अविहीए बंधई' अविधिना शास्त्रोक्तविध्यतिक्रमेण बध्नाति बन्धनं ददाति तथा 'बंधतं वा साइज्जई' बघ्नन्तं वा स्वदते, अविधिना यो रजोहरणे बन्धनं ददाति तमनुमोदते वा स प्रायश्चित्तभागी भवति । यस्मात् अविधिबन्धने पर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः कथमपि रजोहरणे अविधिबन्धनं न दद्यात् , न वा अविधिना बन्धनं ददतमन्यमनुमोदयेदिति ।। सू० ७३ ॥ सूत्रम्--जे भिक्खू रयहरणं कंडुसगबंधेणं बंधइ बंधतं वा साइज्जइ। छाया-यो भिक्षः रजोहरणं कन्दुकबन्धेन बध्नाति बध्नन्तं वा स्वदते ॥ सू०७४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रयहरणं' रजोहरणम् 'कंडुसगबंधेणं' कन्दुकबन्धनेन, कन्दुकमिति बालानां खेलनोपकरणविशेषः 'दडा' 'बोल' इति प्रसिद्धं, तद्वन्धनसदृशबन्धनेन 'बंधइ' बध्नाति, तथा 'बंधतं वा साइज्जइ' बध्नन्तं बन्धन कुर्वन्तं वा स्वदते अनुमोदते । यः श्रमणः कन्दुकबन्धनसदृशबन्धनेन रजोहरणं बध्नाति तस्य कठिनबन्धनकरणे पुनर्मोचने बिलम्बो भवति तेन सूत्रार्थयोर्हानिर्भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् रजोहरणे तादृशं बन्धनं न दातव्यं, न वा ददतं कमप्यनुमोदयेदिति ॥ सू० ७४॥ सूत्रम्--जे भिक्खू स्यहरणं वोसटुं धरेइ धरतं वा साइज्जइ ॥७५॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy