________________
चूर्णिभाष्यावचूरिः उ० ५ सू० ६९-७४ रजोहरणस्यानुचितबन्धनिषेधः १५५
चूर्णी:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अइरेगपमाणं' अतिरेकप्रमाणम् 'रयहरणं' रजोहरणम् ; रजोहरणस्य मानमित्थम्तथाहि-गमनसमये अधोमुखतामन्तरेणैव सुखतो भूमेः प्रमार्जनं कर्तुं शक्नोति तावत्प्रमाणको दण्डः, तद्धटितरजोहरणं हस्तिपदप्रमाणकं शास्त्रसंमतम् , एतस्मादधिकमल्पं वा प्रमाणम् रजोहरणस्यातिरेकप्रमाणम्। अथवा द्वात्रिंशदङ्गुलप्रमाणो दण्डः, अष्टाङ्गुलप्रमाणाफली, ताश्च जघन्यतः सार्द्धशतसंख्यकाः, मध्यमत ऊनशतद्वयसंख्यकाः, उत्कृष्टतः शतद्वयसंख्यका फलिकाः, एतादृशं भूमिकर्मकरणसमर्थम् भवभ्रमणकारणस्य कर्मरजसो हरणे समर्थ रजोहरणं धर्तव्यम् , इतोधिकप्रमाणकं न्यूनप्रमाणकं वा रजोहरणमतिरेकप्रमाणरजोहरणमिति कथ्यते । द्रव्यभावभेदेन द्विप्रकारकरजसो हरणं करोतीति रजोहरमिति व्युत्पत्तेः । तत् 'धरेइ' एतादृशप्रमाणतोऽतिरेकप्रमाणं रजोहरण धरति, तथा 'धरेंतं वा साइज्जइ' धरन्तं वा स्वदते । यो हि भिक्षुरतिरेकप्रमाणकं रजोहरणं धरति धरन्तं वा योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् कारणादतिरेकप्रमाणकं रजोहरणं न धरेत् न वा धरन्तं श्रमणं कथं कथमपि अनुमोदयेदिति ॥ सू० ६९ ॥
सूत्रम्-जे भिक्खू सुहुमाई स्यहरणसीसाइं करेइ करेंत वा साइज्जइ ॥ सू० ७०॥
छाया-यो भिक्षुः सूक्ष्माणि रजोहरणशीर्षाणि करोति कुर्वन्तं वा स्वदते ॥७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मुहुमाई' सूक्ष्माणि श्लक्ष्णानि शोभार्थम् 'रयहरणसीसाइ' रजोहरणशीर्षाणि-रजोहरणस्य शीर्षाणि फलिकास्तदप्रभागान् ‘करेइ' करोति संपादयति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७० ॥
सूत्रम्-जे भिक्खू स्यहरणस्स एकं बंधं देइ देंतं वा साइज्जइ ७१। छाया-यो भिक्षुः रजोहरणस्यैकं बन्धं ददाति ददतं वा स्वदते ॥ सू० ७१ ॥
चूर्णीजे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणस्स एक्कं बंध देइ' रजोहरणस्यक बन्धनं ददाति रजोहरणस्योपरि निशीथिकासूत्रस्य एकमेव बन्धनं ददाति, अयं भावः-रजोहरणदशानां मध्ये प्रथममेकं बन्धनं दातव्यं, तदनन्तरं द्वितीयं बन्धनं फलिकामध्ये दातव्यम् , तदनन्तरम् तृतीयं बन्धनं रजोहरणस्य दण्डोपरिभागे अङ्गुलत्रयं परित्यज्य देयम् , एतादृशस्थितौ एकमेव बन्धनं ददाति, तमनुमोदते च स प्रायश्चित्तभागी भवति ॥ सू० ७१ ॥
શ્રી નિશીથ સૂત્ર