________________
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'लाउयपायं वा' अलाबुकपात्रं 'अलाबु' इति तुम्बिकेति लोकप्रसिद्धं तस्य पात्रम् ' दारुपायं वा' दारुपात्रं वा-काष्ठपात्रमित्यर्थः 'मट्टियापायं वा' मृत्तिकापात्रं वा मृण्मयं भाजनमित्यर्थः 'अलं' अलम् -अखण्डम् ‘थिरं' स्थिरं दृढं 'धुवं' ध्रुवं बहुकालपर्यन्तपरिभोगयोग्यं 'धारणिज्जं ' धारणीयं धारयितुं योग्यं न तु त्यागयोग्यम्, एतावता पात्राणां परिष्ठापनाभावे कारणं प्रदर्शितम्, एतादृशं कार्यक्षममपि अलाबुपात्रादिकम् 'पलिभिदिय पलिभिदिय' परिभिद्य परिभिद्य प्रस्फोट्य प्रस्फोटचेत्यर्थः 'परिद्ववेइ' परिष्ठापयति पात्राणि चूर्णीकृत्य भूमौ निक्षिपती - त्यर्थः तथा 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यः श्रमणः कार्यक्षम मपि अलाबुपात्रादिकं खण्डीकृत्य परिष्ठापयति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादिका दोषाश्चापि भवन्ति, यस्मात्कारणात् कार्यक्षमानामपि पात्राणां स्वण्डीकृत्य परिष्ठापने परिष्ठापयितुरनुमोदने च पूर्वोक्ता दोषा भवन्ति, तस्मात् कारणात् श्रमणः अलाबुपात्रादिकं कार्यक्षमं चूर्णीकृत्य न परिष्ठापयेत्, न वा परिष्ठापयन्तमनुमोदयेदिति ॥ सू०६७॥
१५४
सूत्रम् -- जे भिक्खू दंडगं वा लट्ठियं वा अवलेहणियं वा वेणसूइयं वा पलिभंजिय पलिभंजिय परिवेइ परिद्ववेंतं वा साइज्जइ ॥ सू० ६८ ॥
छाया -यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा वेणुसूचिकां वा परिभज्य परिभञ्ज्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६८ ॥
--
चूर्णीः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दंडगं वा' दंडकं - दारुवेणुप्रभृतिदण्डं वा 'लट्ठियं वा' यष्टिकां वा 'अवलेहणियं वा' अवहनिकां वा तत्र अवलेहनिका चरणलग्नकर्दमनिःसारणाय वंशादिनिर्मित्तक्षुरिकादिरूपा, ताम् 'वेणुसूइयं वा ' वेणुसूचिकां वा 'पलिभंजिय पलिभंजिय' परिभञ्ज्य परिभज्य त्रोटयित्वा त्रोटयत्वेत्यर्थः ' परिवे' परिष्ठापयति, तथा 'परिद्ववेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यो हि भिक्षुर्दण्डादिकं त्रोटयित्वा परिष्ठापयति, तं वा योऽनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषाः भवन्ति ॥ सू० ६८ ||
सूत्रम् -- जे भिक्खू अइरेगपमाणं स्यहरणं धरेइ धरेंतं वा साइज्जइ ॥ सू० ६९ ॥
छाया - यो भिक्षुरतिरेकप्रेमाणं रजीहरणं धरति धरन्तं वा स्वदते ॥ सू० ६९ ॥
શ્રી નિશીથ સૂત્ર