________________
चूर्णिभाष्यावचूरिः उ०५ सू० ६६-६८ वस्त्रपात्रादीनां छेदनादि कृत्वा परिष्ठापननिषेधः १५३ मुपविश्याहारादिकरणम् , ततः असमानसामाचारीकैरपि सहाहारादिकरणे संभोगप्रत्ययकारणिका किया कर्मबन्धो न भवति, इत्येवंप्रकारेण यो वदति । अत्र 'संभोग-शब्देन द्वादशप्रकारकसंभोगो ज्ञातव्यः, येन साधुना सह एकत्र भोजनादिव्यवहारो न भवेत्तेन, अथवा यः विरुद्धसामाचारीकस्तेन सह भोजनादिक्रियां करोतु न तत्र कोऽपि कर्मबन्धः, इत्येवं यो वदति, तथा 'वयंत वा साइज्जई' वदन्तं वा स्वदते । यो हि भिक्षुः 'संभोगकारणकः कर्मबन्धो न भवति' एवं वदति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञा भङ्गानवस्थामिथ्यात्वादिका दोषा भवन्ति तस्मात् संभोगप्रत्यया क्रिया न भवतीत्येवं न वदेत् ॥सू०६५॥
सूत्रम्-जे भिक्खू वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अलं थिरं धुवं धारणिज्जं पलिच्छिदिय पलिच्छिदिय परिट्ठवेइ परिहवेंत वा साइज्जइ॥ सू० ६६॥
छाया-यो भिक्षुर्वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोज्छनकं वा अलं स्थिर ध्रुवं धारणीयं प्रतिच्छिद्य प्रतिच्छिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ६६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः निरवद्यभिक्षणशील: श्रमणः श्रमणी वा 'वत्थं वा' वस्त्रं वा-क्षौमिकं कार्पासिकं वा 'पडिग्गरं वा' प्रतिग्रहं वा-पात्रं वा 'कंबलं वा कम्बलं वा-ऊर्णादिनिष्पन्न 'पायपुंछणं वा' पादपोंछनकं वा-रजोहरणमित्यर्थः, 'अलं थिरं धुवं' तत्र अलं कार्यकरणे पर्याप्तं समर्थमपि, स्थिरम् यथावस्थितं, ध्रुवं चिरकालपर्यन्तवर्तनयोग्यं 'धारणिज्ज' धारणीय-धारणयोग्यं कार्यकरणयोग्यमपि वस्त्रादिकम् 'पलिच्छिदियपलिच्छिदिय प्रतिच्छिद्य प्रतिच्छिद्य हस्तेन छुरिकादिना वा खण्डं खण्डं कृत्वा 'परिहवेइ' परिष्ठापयति-कार्यक्षम मपि वस्त्रादिकं हस्तेन शस्त्रादिना वा छित्त्वा भूमौ परिष्ठापयति निक्षिपति तथा 'परिटवेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते, तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा कार्यकरणक्षमं वस्त्रादिकं छित्वा न परिष्ठापयेत् , न वा परिष्ठापयन्तमनुमोदयेदिति ॥सू०६६॥
सूत्रम्--जे भिक्खू लाउयपायं वा दारुपायं वा मट्टियापायं वा अलं थिरं धुवं धारणिज्जं पलिभिदिय पलिब्भिदिय परिठ्ठवेइ परिद्ववेतं वा साइज्जइ सू० ६७॥
छाया-यो भिक्षुरलावुकपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा अलं स्थिरं ध्रवं धारणीय परिभिद्य परिभिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६७ ॥
શ્રી નિશીથ સૂત્ર