________________
निशीथसूत्रे चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘सपाहुडियं सेज्ज सप्राभृतिकां शय्याम् , प्राभृतम्-उपहारः, यत्र कर्म प्राभृतं भवति कर्मण आगमनं भवति तेन सहिता या सा सप्रामृतिका, यस्यां वसतौ छादनलेपनभूमिकर्मादिकं क्रियते तादृशीं शय्यां वसतिम् , यद्वा प्राघूर्णकानां निवासाय कियत्कालार्थ दत्ता साऽपि वसतिरुपचारात् सप्राभृतिका प्रोच्यते, तादृशीं शय्यां वसति स्थानकमित्यर्थः 'अणुप्पविसई' अनुप्रविशति एतादृशोपाश्रये निवासार्थमागच्छति 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सप्राभृतकं स्थानकं निवासार्थमागच्छति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मात् कारणात् सप्राभृतिकावसतौ निवासकरणे एते पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः सप्राभृतकस्थानके निवासं न कुर्यात् , न वा सप्राभृतकस्थानके निवसन्तं श्रमण मनुमोदयेदिति ॥ सू० ६३ ॥
सूत्रम्-जे भिक्खू सपरिकम्मं सेज्जं अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥ सू० ६४॥
छाया-यो भिक्षुः सपरिकर्मी शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू०६४॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सपरिकम्मं सेज्ज 'अणुप्पविसइ' सपरिकर्मा शय्याम् अनुप्रविशति, तत्र सपरिकर्मा-परिकर्मसहिता लिप्ता घृष्टा मृष्टा धवलिता भवेत् , यत्र निवासकरणेन मूलगुणोत्तरगुणानां विघातो जायते, अथवा यस्यां वसतौ साधुमुद्दिश्यानुद्दिश्य वा कश्चित् धावनघर्षणलेपनादिकं चित्रकर्मादिकं वा संपादितं भवेत् तादृशी वसतिः सपरिकर्मा शय्या कथ्यते । तामनुप्रविशति तत्र निवासं करोति, तथा 'अणुप्पविसंत वा साइज्जई' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सपरिकर्मवसतौ निवासं करोति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ६४ ॥
सूत्रम्-जे भिक्खू ‘णत्थि संभोगवत्तिया किरिय'-त्ति वयइ वयंतं वा साइज्जइ ॥ सू० ६५॥
छाया-यो भिक्षुः 'नास्ति संभोगप्रत्यया क्रिया' इति वदति वदन्तं वा स्वदते ॥६५॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘णत्थि संभोगवत्तिया किरिय-त्ति वयइ' नास्ति संभोगप्रत्यया क्रियेति वदति । तत्र नास्ययं प्रतिषेधः, 'संभोग' इत्यत्र संशब्दः एकीभावे भुजधातुः पालनाभ्यवहरणार्थकः, ततश्च एकत्र भोजनमित्यर्थः, एकमण्डल्या
શ્રી નિશીથ સૂત્ર