SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Wwwvvvvvvvvvvvv चूर्णिभाष्यावचूरिः उ० ५ सू० ६१-६४ औदेशिवयादिवसतिवासनिषेधः १५१ सूत्रम्-एवं अण्णयराणि वा तहप्पगाराणि वा अणुदिन्नाई सद्दाई उदीरेइ उदीत वा साइज्जइ ॥ सू० ६१॥ छाया- एवमन्यतरान् वा तथाप्रकारान् वा अनुदीर्णान् शब्दान् उदीरयति उदीरयन्तं वा स्वदते ॥ सू० ६१ ॥ चूर्णी- 'एवं अण्णयराणि' इत्यादि । संप्रति प्रकृतप्रकरणमुपसंहरन्नाह-'एव'मित्यादि । 'एवं' एवं यथोक्तप्रकारेण 'अण्णयराणि वा' अन्यतरान् वा वीणावादनप्रकारेण अन्यानपि शब्दान् पशुपक्षिसादीनां शब्दान् 'तहप्पगाराणि वा' तथाप्रकारान् वा तं प्रकारमापन्ना इति तथाप्रकाराः, तान् शब्दान् वादित्रशब्दसमानानन्यानपि 'अणुदिन्नाई अनुदीर्णान् 'सद्दाई' शब्दान् 'उदीरेइ' उदीरयति उच्चारयति, अर्थात् यत् मोहनीय कर्म उपशान्तं तत् पुनरनेकप्रकारकशब्दोच्चारणेन उदीरयति, तथा 'उदीरेंतं वा साइज्जई' उदीरयन्तं वा स्वदते । यो हि श्रमणोऽनेकप्रकारकान् शब्दानुदीरयति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।। सू० ६१ ॥ सूत्रम्-जे भिक्खू उद्देसियं सेज्जं अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥ सू० ६२॥ छाया-यो भिक्षुरौद्देशिकी शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू० ६२॥ __ चूर्णी-जे भिक्खू उद्देसियं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उद्देसियं सेज्ज' औदेशिकी शय्याम्-एकं श्रमणं श्रमणी वा उद्दिश्य कृता इति औद्देशिकी, सा चासौ शय्या वसतिः स्थानकमित्यर्थः तामौदेशिकी शय्याम् 'अणुप्पविसई' अनुप्रविशति साधुमुद्दिश्य कृतोपाश्रये उपागच्छति, उपाश्रये निवासकरणार्थं यः श्रमणः प्रवेशं करोति, तथा 'अणुप्पविसंतं वा साइज्जई' अनुप्रविशन्तं वा स्वदते । यः श्रमण औद्देशिकस्थानके उपागच्छति तं योऽन्यः श्रमणोऽनुमोदते स प्रायश्चितभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ६२॥ सूत्रम्-जे भिक्खू सपाहुडियं सेज्जं अणुप्पविसइ अणुप्पक्सिंतं वा साइज्जइ॥ सू० ६३ ॥ छाया-यो भिक्षुः सप्राभृतिकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ६३ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy