________________
निशीथसूत्रे
१५०
वद् भवति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते । यो हि भिक्षुः स्वकीयं मुखं कुचेष्टा वीणावत् करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञा भङ्गादिकाः दोषा भवन्ति ॥सू० ३७|| एवं मुखबीणिकाकरणसूत्रवदेवान्यान्यपि दन्तवीणिकाकरणसूत्रत आरभ्य हरिवोणिकाकरणसूत्रपर्यन्तानि एकादश सूत्राणि व्याख्येयानि । तथाहि - 'जे भिक्खू दंतवीणियं करेइ' यो भिक्षुर्दन्तवोणिकां करोति ॥३८॥ एवम् 'उद्ववीणियं' ||३९|| ' नासावीणियं' ||४०|| 'कक्नवीणियं ॥ ४१ ॥ ' हत्थवीणियं' ||४२ || 'नहवीणियं' ||४३|| 'पत्तवीणियं ' ॥ ४४ ॥ ' पुप्फवीणियं ॥ ४५ ॥ ' फलवीणियं ' ॥ ४६ ॥ 'बीयबीणियं' ||४७|| 'हरियवीणियं' ॥ ४८ ॥ छाया-यो भिक्षुर्दन्तवीणिकां करोति ॥३८ || एवम् - ओष्ठवीणिकाम् ||३९|| नासावीणिकाम् ||४०|| कक्षावणिकाम् ॥४१॥ हस्तवीणिकाम् ||४२ || नखवीणिकाम् ||४३|| पत्रवीणिकाम् ||४४ || पुष्पवीणिकाम् ॥४५॥ फलवीणिकाम् ॥४६॥ बीजवीणिकाम् ॥४७॥ हरितवीणिकाम् ||४८ ॥ एतानि सूत्राणि मुखवीणिकाकरणसूत्रवद् व्याख्येयानि ॥ सू० ४८॥
सूत्रम् - जे भिक्खू मुहवीणियं वाएइ वाएंतं वा साइज्जइ ॥ सू० ४९ ॥
"
छाया -यो भिक्षुर्मुखवीणिकां वादयति वादयन्तं वा स्वदते || सू० ५९ ॥ चूर्णी - 'जे भिक्खू मुहवीणियं' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'मुहवीणियं वाएइ' मुखवीणिकां वादयति मुखं वीणावत् वादयति मुखेन वीणावत् शब्दं करोति, मोहं विलक्षणं मधुरशब्दकरणेन जनयति तथोपशान्तमपि मोहमुदीरयति तथा 'वाएं वा साइज्जइ' वादयन्तं वा स्वदतेऽनुमोदते । यो हि साधुः मुखं वीणावद् वादयति वादयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू०४९ ॥ एवं मुखवीणिकावादनसूत्रवदेवाऽन्यान्यपि दन्तवोणिकावादनसूत्रत आरभ्य हरितवीणिकावादनसूत्रपर्यन्तानि एकादश सूत्राणि व्याख्येयानि । तथाहि - 'जे भिक्खूदंतवीणियं वाएइ' सु० ५० ॥ 'ओबीणियं वाइ' ॥ ५१ ॥ ' नासावोणियं वाई' ॥ ५२ ॥ ' कक्खवीणियं' वाएइ ॥ ५३ ॥ 'हस्थवीणियं वाएइ' ॥५४॥| 'नहवीणियं वाइ' ॥ ५५ ॥ 'पत्तवीणियं वाइ' ॥ ५६ ॥ 'पुप्फवीणियं वाइ' ॥५७॥ ' फलवीणियं वाएइ' || ५८|| 'बीयवीणियं वाएइ ॥ ५९ ॥ ' हरियवीणियं वाएइ' ॥६०॥ छाया-यो भिक्षुर्दन्तवीणिकां वादयति ॥सू०५० || ओष्ठवीणिकां वादयति ॥ ५१ ॥ नासावीणिकां वादयति || ५२|| कक्षावणिकां वादयति || ५३ || दस्तवीणिकां वादयति ॥५४॥ नवीणिकां वादयति ॥५५|| पत्रवीणिकां वादयति ॥ ५६ ॥ पुष्पवीणिकां वादयति ॥ ५७ ॥ फलवीणिकां वादयति ॥ ५८ ॥ बीजवोणिकां वादयति ॥ ५९ ॥ हरितवीणिकां वादयति ॥६०॥ एतानि सूत्राणि मुखवीणिकावादनसूत्रवद् व्याख्येयानि ॥सू० ६०॥
શ્રી નિશીથ સૂત્ર