________________
चूर्णिभाष्यावचूरिः उ०५ सू० ३६ - ६० नवलोहादिखन्यांमिक्षायाः मुखवीणिकादेश्च निषेधः १४९
अमङ्गलमिति कृत्वा न वासं करोति ततो निवर्तते । अस्थिरे च ग्रामे जाते लोका वदन्ति - कुतो - ऽस्माकं सुखम् यस्मात् प्रथममेव तु मुण्डशिरसो दृष्टाः भिक्षया लम्भिताश्च, इति तस्यान्येषां च श्रमणानां भक्तादीन् निवारयिष्यन्ति एवं चान्तरायदोषो भवति । एवं च नवनिर्मितग्रामादौ प्रवेशे दोषा भवन्ति । एवं नवनिर्मितग्रामादौ प्रवेशे कृते सचित्तपृथिव्यादिसंघट्टनादोषः, अष्कायहरितकायादिसंघट्टनदोषोपि भवेत् तस्मात् कारणात् नवनिर्मितग्रामादौ प्रवेशो न कर्तव्यो न वा प्रविशन्तमनुमोदयेदिति ||सू० ३५||
सूत्रम् — जे भिक्खू नवणिवेसंसि अयागरंसि वा तंबागरंसि वा तउ. आगरंसि वा सीसागरंसि वा हिरण्णागरंसि वा सुवण्णागरंसि वा रयणा. गरंसि वा वइरागरंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ||सू० ३६||
छाया - यो भिक्षुर्नव निवेशे वा अयआकरे वा ताम्राकरे वा त्रप्वाकरे वा सीसाकरे वा हिरण्याकरे वा सुवर्णाकरे वा रत्नाकरे वा वज्राकरे वा अनुप्रविश्याशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० ३६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । यो भिक्षुः श्रमणः श्रमणी वा इत्यदिना यथा नवनिवेशिते ग्रामादौ प्रविश्य भिक्षाग्रहणनिषेधः कृतस्तथैव नवनिवेशिते लोहखन्यादावपि भिक्षाग्रहणनिषेधो ज्ञातव्यः । तथाहि - नवनिवेशिते अयआकरे - लोहखन्यां, एवं ताम्राकरे - ताम्रखन्यां, त्रष्वाकरे त्रपुः - 'जसदा' इति प्रसिद्ध धातुविशेषः, तस्य खन्यां, सीसाकरे- सीस कनामधातुविशेषखन्यां हिरण्या करे - रजतखन्यां, सुवर्णाकरे, रत्नाकरे - रत्नखन्यां, वज्रा करे- वजरत्नखन्यां वाऽनुप्रविश्य श्रमणः श्रमणी वाऽशनादिकं गृह्णाति गृह्णन्तं वा स्वदते स दोषभाग् भवति । तत्र गमने संयमात्मविराधनाऽवश्यम्भाविनी, एषां सचित्तत्वात्संयमविराधना । पतनादिसंभवेनाऽऽत्मविराधना च भवति । तथा तत्र स्थितानां चौरादिशङ्कासंभवोऽपि स्यात् ॥ सू० ३६॥
सूत्रम् — जे भिक्खू मुहवीणियं करेइ करेंतं वा साइज्जइ ॥ सू० ३७|| छाया -यो भिक्षुर्मुखवीणिकां करोति कुर्वन्तं वा स्वदते ॥सू० ३७||
चूर्णी -- ' जे भिक्खू मुहवीणियं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मुहवीणियं करेइ' मुखवीणिकां करोति, तत्र वीणा वाद्यविशेषलक्षणा, तथा च वीणावत् मुखं करोति, वीणया हि मधुरशब्दोऽभिव्यज्यते ततो मुखस्य तथा चेष्टां करोति यथा मुखं वीणा
શ્રી નિશીથ સૂત્ર