________________
१४८
निशीथसूत्रे चूर्णी-'जे भिक्खू विचित्ताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः विचित्ताई विचित्रान् नानावर्णोपेतान् 'दारुदंडाणि' दारुदण्डान् 'वेणुदंडाणि वा' वंशदण्डान् 'वेत्तदंडाणि वा' वेत्रदण्डान् वा 'करेइ' करोति 'करेंतं वा साइज्जई कुर्वन्तं वा स्वदतेऽनुमोदते । यः श्रमणः नानावर्णोपेतान् दारुदण्डादिकान् स्वयं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥सू० ३२ ॥ एवं 'धरेइ' ॥सू० ३३। 'परिभुंजइ' व्याख्यानं पूर्ववत् ॥सू०३४॥
सूत्रम्--जे भिक्खू नवणिवेसंसि गामंसि वा जाव संनिवेसंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडि. ग्गाहेंतं साइज्जइ ॥ सू० ३५॥
छाया-यो भिक्षुर्नवनिवेशे ग्रामे वा यावत् संनिवेशे वा अनुप्रविश्याशनं वा पानं वा खाद्य वा स्वाय वा प्रतिगृह्णाति प्रतिगृह्णतं वा स्वदते ॥सू० ३५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'नवणिवेसंसि वा' नवनिवेशे वा-नवतया निवेशः स्थापनं यस्य स नवनिवेशः-तस्मिन् प्रथमतया निवासिते, तादृशे 'गामंसि वा' प्रामे वा 'जाव संनिवेसंसि वा' यावत् संनिवेशे वा अत्र. यावत्-पदेन नगरखेटकर्बटादीनां संग्रहो भवति, एतेषु नवनिवेशितेषु प्रामादिषु 'अणुप्पविसित्ता' अनुप्रविश्य प्रवेशं कृत्वा, यो हि भिक्षुर्नवनिर्मितप्रामादिषु मध्ये प्रवेशं कृत्वेत्यर्थः 'असणं वा' अशनमाहारादिजातं वा 'पाणं वा' पानं तण्डुलधावनादिकमचित्तजलम् ‘खाइमं वा' खाद्यद्राक्षाखण्डादिकभू 'साइमं वा' स्वाद्यं लवङ्गादिकम् 'पडिग्गाहेइ' प्रतिगृह्णाति-ग्रहणं करोति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते । यो हि श्रमणो नवनिर्मितग्रामादावनुप्रविश्याहादेर्ग्रहणं करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् कारणात् श्रमणो नवनिर्मितप्रामादिषु प्रविश्य न चतुर्विधाहारादिकं गृह्णीयात् न वा गृह्णन्तमनुमोदयेदिति ।
___अयं भावः-नवनिर्मितप्रामादौ प्रविशन्तं श्रमणं दृष्ट्वा भद्रका अनिवसितुकामा अपि एवं विचारयन्ति-अहो भाग्यवशात् साधुः समागतो महन्मङ्गलं जातम् , स्थिरीभूतं च । एवं जानन्ति वदन्ति च - अहो साधुदर्शनं धन्यम् , साधुनाऽत्र प्रथममेव भिक्षाग्रहणं कृतम् , तेन कारणेन ग्रामोपि स्थिरो भविष्यति, वयमपि चात्र सुस्थिराः सन्तो वसिष्यामः, इति कृत्वा ते तत्रागत्य निवसन्ति तेनारम्भप्रवृत्तिः । ततस्ते भद्रकाः तेषां साधूनामन्येषां वा निमित्तमुद्गमादिदोषदुष्टमाहारादिकं कुर्युः । यश्च अभद्रकः स पुनर्नवनिर्मितग्रामादौ आवासं कर्तुकामोपि प्रथमतः साधुं दृष्ट्वा
શ્રી નિશીથ સૂત્ર