SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ चूर्णि० उ०५ सू०२८-३५ सचित्तादिदारुदण्डकादेर्न वनिवेशित प्रामादौ भिक्षायाश्चनि० १४७ छाया -यो भिक्षुः सचित्तान् दारुदंडान् वा वेणुदंडान् वा वेत्रदंडान् वा करोति कुर्वन्तं वा स्वदते || सू० २६|| चूर्णी - 'जे भिक्खू सचित्ताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचिताई ' सचित्तान् - सजीवान् 'दारुदंडाणि वा' दारुदण्डान् वा शिशपादिवृक्षसंपादितदण्डान् इत्यर्थः 'वेणदंडाणि वा' वेणुदण्डान् वा, तत्र वेणुर्वेशस्तत्सम्बन्धिनो दण्डान् ' वेत्तदंडाणि वा' वेत्रदण्डान् वा. तत्र वेत्रम् लताविशेषलक्षणं 'वेंत' 'नेतर' इति लोकप्रसिद्धम्, तस्य वेत्रस्य सचित्तदण्डान् वेत्यर्थः 'करेइ' करोति सचित्तदारुदण्डादीन् स्वयं संपादयतीत्यर्थः तथा ' करतं वा साइज्जई ' सचित्तदारुदण्डान् कुर्वन्तं संपादयन्तमन्यमनुमोदते । यो हि भिक्षुः श्रमणः सचित्तदारुवंशादिदण्डं स्वयं करोति कुर्वन्तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गाऽनवस्थादयो दोषा भवन्तीति ॥ सू० २६॥ एवं 'धरेइ' धरति - हस्ते धारयति ||सू० २७|| 'परिभुंजइ' परिभुङ्के अन्यस्मिन् कार्ये परिभोगं करोति, शेषं पूर्ववत् ॥सू० २८॥ सूत्रम् -- जे भिक्खू चित्ताईं दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० २९ ॥ छाया - यो भिक्षुः चित्रान् दारुदण्डान् वा वेणुदण्डान् वा वेत्रदण्डान् वा करोति कुर्वन्तं वा स्वदते ॥सू० २९|| चूर्णी - 'जे भिक्खू चिताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'चित्ताई' चित्रान् वर्णयुक्तान् 'दारुदंडाणि वा' दारुदण्डान्, तत्र चित्रः एकवर्णेन नीलपीतादिना वा एकेन वर्णेन अतिशयेनोज्ज्वलः, तथा च एकवर्णेन येन केनापि अतिशयेन दारुदण्डान् उज्ज्वलान् 'करोति' इत्यग्रिमेण सम्बन्धः, तथा 'वेणुदंडाणि वा' वेणुदण्डान् वा तत्र वेणुर्वंशः, तस्य दण्डान्, तान् वर्णेनोज्ज्वलान् करोति, तथा 'वेत्तदण्डाणि वा' बेत्रदण्डान् वा एकवर्णेनातिशयेनोज्ज्वलान् 'करेइ' करोति स्वयं संपादयति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा संपादयन्तमन्यं श्रमणं स्वदतेऽनुमोदते । यो भिक्षुचित्रं दारुदण्डं वेणुदण्डं वेत्रदण्डं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ मु०२९|| एवं 'धरेइ' सू० ३० || 'परिभंजइ ' सू० ३१॥ व्याख्यानं पूर्ववत् ॥ सूत्रम् - जे भिक्खू विचित्ताईं दारुदंडाणि वा वेणुदंडाणि वा वेतदंडाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ३२ ॥ छाया -यो भिक्षुः विचित्रान् दारुदण्डान् वा वेणुदण्डान् वा वेत्रदण्डान् वा करोति कुर्वन्तं वा स्वदते ॥सू० ३२ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy