SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १४४ निशीथसूत्रे ॥ १९ ॥ ततः प्रातिहारिकस्य दण्डकादिकस्य प्रातःकाले प्रत्यर्पणार्थं कथयित्वा दिवसावसाने एव प्रत्यर्पयतीति तद्विषयकं सूत्रम् ||२०|| एवम् - सागारिकसत्कस्य दण्डकादिकस्य तस्मिन्नेव दिवसावसाने प्रत्यर्पयिष्यामीति कथयित्वा प्रातः प्रत्यर्पयतीति तद्विषयं सूत्रम् ॥ २१ ॥ एवं सागारिकसत्कस्य दण्डकादेः प्रातः प्रत्यर्पयिष्यामीति कथयित्वा तस्मिन्नेव दिवसावसाने प्रत्यर्पयतीति तद्विषयकं सूत्रम् ॥२२॥ एतत्सूत्रचतुष्टयमपि साधोर्वचने मृषावाददोषवत्त्वेन निषेधविषयकमस्ति । शेषं पञ्चदशसूत्रवद् व्याख्येयम् ॥सू०२२॥ अत्राह भाष्यकारः भाष्यम् - पाडिहारियसागारि, - संतिए जे गमा भवे । पाय पुंछणगे दंडाइए चेत्थ तहेव य ॥ छाया - प्रातिहारिकलागारि, सत्के ये गमा भवेयुः । पादप्रोज्छनके दण्डादिके चात्र तथैव च ॥ अवचूरि : - 'पाडिहारिय' इत्यादि । प्रातिहारिके प्रातिहारिकपादप्रोञ्छनकविषयक पश्चदशषोडशसूत्रयोर्यो गमद्वयप्रकारः कथितः स एव हि गमद्वयप्रकार: सागारिकपादप्रोञ्छन विषयकसप्तदशाष्टादशसूत्रयोरपि ज्ञातव्यः । तथा पादप्रोछनकविषयके पञ्चदशादिसूत्रचतुष्टये यद्वत् येन प्रकारेण रजोहरणस्य प्रतिपादितो द्वितीयोदेशकप्रकारेण स एव प्रकार: प्रातिहारिक सागारिकसत्क - दण्डादिष्वपि सूत्रचतुष्टयी प्रयोक्तव्या । एतत्सर्वं द्वितीयोदेशके प्रथमसूत्रादारम्याष्टमसूत्रपर्यन्तं यथा वर्णितम् तथैवात्रापि पञ्चमोदेशके वर्णयितव्यम् । श्रावकात् याचित्वा आनीतस्य पादप्रोञ्छन कस्य दण्डादेर्वा यथासमयमप्रदाने प्रायश्चित्तं भवति, तथा आज्ञा भङ्गादिका दोषा अपि भवन्तीति ॥सू०२२ ॥ सूत्रम् - जे भिक्खू पाडिहारियं वा सेज्जासंथारगं पच्चप्पिणित्ता दोच्चपि अणणुन्नविय अहिठेइ अहितं वा साइज्जइ ॥ सू० २३ ॥ छाया - यो भिक्षुः प्रातिहारिकं वा शय्यासंस्तारकं प्रत्यर्पयित्वा द्वितीयमपि अननुज्ञाप्याधितिष्ठति अधितिष्ठतं वा स्वदते ॥ सू० २३|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पाडि - हारियं वा' प्रातिहारिकं वा 'सेज्जासंथारगं' शय्यासंस्तारकं श्रावकादानीतं श्रवकाय 'पञ्चप्पि णित्ता' प्रत्यर्पयित्वा प्रत्यर्पणार्थं तु गतवान् किन्तु तत्स्वामिनोऽनुपस्थित्यादिकारणवशात् अनयित्वा तदादायैव समागतः, तत् शय्यासंस्तारकं तत्रैव तिष्ठति तादृशं शय्यासंस्तारकं पुनः 'दोच्चं पि अणणुन्नविय' द्वितीयं - द्वितीयमपि वारम् अननुज्ञाप्य तस्याज्ञामगृहीत्वैव यदि कारणवशात् 'अहिट्ठेइ' अधितिष्ठति तदुपरि समुपविशति तस्याननुज्ञापितस्य शय्यासंस्तारकस्योपभोगं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy