SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ. ५ सू० २४-२५ दीर्घसूत्रकरणनिषेधः १४५ करोति, तथा ' अहितं वा साइज्जइ' अधितिष्ठन्तं वा त्वदते । यो हि आनीतं शय्यासंस्तारकं श्रावकायार्पयित्वा पुनरपि आज्ञामन्तरेण तस्योपभोगं करोति उपभोक्तारमनुमोदते च स प्रायश्चित्तभागी भवति । प्रातिहारिकाऽप्रातिहा रिकशय्या संस्तारकमर्पयितुं गतः किन्तु कारणवशाद् न समर्पितवान् तच्च शय्या संस्तारकं तयैवावतिष्ठते तादृशं शय्यासंस्तारकं द्वितीयवार मननुज्ञाप्य तदाज्ञामनवाप्य तस्योपभोगं करोति स प्रायश्चितभागी भवती, तथा तस्याऽऽज्ञाभङ्गादिका दोषा भवन्ति । अननुज्ञातस्य शय्यादेरननुज्ञाप्य पुनरुपभोगे मायित्वं मृषावदित्वं च स्यात्, तथा अदत्तादानम् अप्रत्ययः कलहः उपालम्भश्च स्यात् यस्मादेते दोषास्तस्मात् कारणात् समर्पितं शय्यासंस्तारकं द्वितीयचारमननुज्ञाप्य न भोक्तव्यमिति ॥सू० २३॥ " 1 सूत्रम् -- जे भिक्खू सागारियसंतियं सेज्जासंथारगं पच्चप्पिणित्ता दोच्चपि अणणुन्नविय अहिट्ठेइ अहितं वा साइज्जइ ॥ सू० २४ ॥ छाया -- यो भिक्षुः सागारिकसत्कं शय्या संस्तारकं प्रत्यर्पयित्वा द्वितीयमप्यननुज्ञाप्याधितिष्ठति कधितिष्ठन्तं षा स्वदते ॥ सू० २४ ॥ चूर्णी - 'जे भिक्खू सागारिय' ० इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'सागारियसंतियं सेज्जासंथारगं' सागारिकसत्कं श्रावकसम्बन्धि यदुपाश्रयस्थितं तत् पुनः शय्यासंस्तारकं पीठफलकादिकं पच्चप्पिणित्ता' प्रत्यर्प्य तदुपभोगाज्ञां समर्प्य तत् पुनः 'दोच्चपि अणणुन्नविय' द्वितीयमपि वारम् अननुज्ञाप्य श्रावकस्याज्ञामनादाय 'अहिठेइ' अधितिष्ठति तादृशशय्या संस्तारकस्योपभोगं करोति, तथा ' अहितं वा साइज्जइ' अधितिष्ठन्तमुपभोगं कुर्वन्तं वा श्रप्तणं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् कारणात् तस्य तादृशस्य सागारिकसत्काय्यासंस्तारकस्य द्वितीयवारम् अननुज्ञाप्य नोपभोगः करणीयः, न वा तदुपभोक्तुरनुमोदनं करणीयमिति ॥ सू० २४ ॥ सूत्रम् — जे भिक्खू सणकप्पासाओ वा उण्णकप्पासाओ वा पोंडकप्पासाओ वा अमिलकप्पासाओ वा दीहसुत्ताईं करेइ करेंतं वा साइज्जइ ॥ छाया - यो भिक्षुः शणकार्पासतो वा ऊर्णाकार्पासतो वा बोण्डकार्पासतो वा अमिलकार्पासितो वा दीर्घसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० २५|| શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy